________________
२१८
दर्पणसहिते वैयाकरणभूषणसारे
षष्ठी" (पा० स० २।३ । ५० ) इति सूत्रात् तस्याः सम्ब. धमात्रं वाच्यम् । कारकषष्ठ्यास्तु शक्तिरेवेत्यलम् ॥ ...
मिधर्मवाचकत्ववदेतस्यास्तथा भ्रमो माभूदित्याशयेनाह सारे *सम्बन्धमात्रमिति ॥ पक्षद्वयेऽपीति शेषः। ___ सच क्वचित् सम्बन्धत्वेन सामान्यधर्मेण वाच्यः, क्वचिच विशेषरूपणैव । तत्र सामान्यरूपेण,“मातुः स्मरति" इत्यादौ । विशेपरूपेण विषक्षायां स्वस्वविषये तत्तविभक्तीनां प्रसरात् । “राज्ञः पुरुषः" इत्यादौ तु विषेशरूपेणैव । अनेकसम्बन्धसत्वेऽपि सम्बन्धः विशेषविवक्षया, 'नदं चेत्रस्य'इति प्रयोगात् । सम्बन्धश्च सर्वत्र क्रियाकारकभावमूल एव । “षष्ठी शेषे” इति सूत्रे, 'राज्ञः पुरुष' इत्यत्र राजा पुरुषाय ददातीति सम्प्रत्ययाद्राजा कर्ता पुरुषः सम्प्रदान, वृक्षस्य शाखेत्यत्र वृक्षे शाखेति लौकिकप्रसिध्या वृक्षः शाखाया अ. धिकरणम् । यदेतत् सम्प्रदानं नाम चतुर्भिः प्रकाररेतद्भवति । क्र. यणादपहरणाद्याश्चायाः परिवर्तनरूपाद्विनिमयादित्यनेन यत्राधूय. माणा क्रिया तत्रापे तत्फलसम्बन्धानुमितकरणत्वादिशक्तर्वस्तुतः सस्वादित्यर्थकेन भाष्येण शेषपदार्थाऽप्रसिद्धिमाशङ्कयैवं तहि कर्मा. दीनामविवक्षा शेष इति शेषोक्तः । क्रियाकारकसम्बन्धस्य वस्तुतः सर्वत्र सत्वेऽपि तनिमित्तस्य स्वस्वामिभावादेः सम्बन्धत्वेन विव. क्षणे तस्याऽविवक्षा। अविवक्षणात शेषपदार्थसौलभ्यमिति तद्भावः ।
नच संबन्धस्योभयनिरूप्यत्वात राज्ञः पुरुष'इत्यत्र राजपदोत्तरमि. व पुरुषपदोत्तरं षष्ठ्यापत्तिरितिचन्न यदा राक्षः उपकारकत्वविवक्षा तदा राजपदादेव । यदा तु पुरुषस्य तद्विक्षा तदा पुरुषपदादपि, पुरुषस्य राजेति । नचैकदोभयत्र सेति नोक्ताऽतिप्रसङ्गः। तदुक्तं हरिणा--
द्विष्ठोऽप्यसौ परार्थत्वाद् गुणेषु व्यतिरिच्यते ।
तत्राऽभिधीयमानश्च प्रधानेऽप्युपचर्यते ॥ इति । परथत्वात्परं प्रति गुणानां विशेषणत्वाद, विशेषणत्वेन वि. वक्षितस्थ सम्बन्धं विना विशेषणत्वाऽसम्भवेन सम्बन्धो व्यक्तिरु. च्यते उद्भूततया प्रतीयते इति तत्रैव पाष्ठी । विशेष्यस्य तु पदा.