________________
सुबर्थनिर्णयः ।
२१७
1
स्वाश्रयत्वमावं वाच्यम् । तदेव च तादात्म्येनावच्छेदकम् । करणतृतीयायाश्च व्यापारोऽपि पञ्चम्या विभागमात्रं चतुर्थ्या उद्देश्यत्वमात्रम् । अत एवाऽऽकृत्यधिकरणमपि न विरुद्ध्यत इत्यभिप्रेत्याह — शक्तिरेव वेति ॥ षण्णामपीति शेषः (१) । " शेषे
9
मीनामिति शेषः । मात्रपदेनाश्रयव्यवच्छेदः ।
नन्वाश्रयत्वस्य शक्यत्वे आश्रयत्वं शक्यतावच्छेदकं वाच्य म् । तच्चाश्रयत्वेतरावृत्तित्वघटितत्वाद् गुर्विति शक्यतावच्छेदकगौरवमवैतस्मिन् कल्पे दोष इत्यत आह *तदेवेति* ॥ आश्रयत्वमेवेत्यर्थः । एवकारेण निरुक्ताश्रयत्वत्वव्युदासः । तस्याखण्डत्व स्योपपादितत्वान्नानाव्यक्तिविशेष्यकशक्तिग्रह एव स्वेतरधर्मस्याऽव : च्छेदकत्वापेक्षणादिति भावः । कर्तृ तृतीयाया आश्रयमात्रार्थकत्वादाह *करणेति* || व्यापारोऽपीत्यपिनाऽऽश्रय समुच्चयः (२) ॥
*विभागमात्रमिति ॥ मात्रपदेनाश्रयत्वव्यवच्छेदः । विभागस्याश्रयतयाऽन्वयादेव वृक्षादाववधित्वलाभादिति भावः । वस्तुत: स्तु, वृक्षादेरवधित्वरूपसम्बन्धेन पञ्चम्यर्थविभागेऽन्वय इत्युक्तम् उद्देश्यत्वमात्रमित्यनेनाप्याश्रयत्वस्य सः ॥ *अत एवंति* ॥ कर्मत्वादिशक्तैस्तत्तविभक्तिवाच्यत्वकथनादेवेत्यर्थः ॥
*न विरुद्ध्यत इति ॥ शक्तिग्रहे जातिव्यक्त्योरुभयोर्भानाविशेasu जातिरेव शक्या, 'नागृहीतविशेषणन्यायाद्' 'विशेष्यं नाभिधा गच्छेत्" इतिन्यायाच्च । व्यक्तिशक्तौ व्यभिचारात् तासामानन्त्याश्चेति तत्र सिद्धान्तितमिति भावः ॥ कारकविभक्त्यर्थे निरूप्य प्रसङ्गात् षष्ठ्यर्थं निरूपयति ॥ *मूले सम्बन्ध इति * ॥ “ शेषे षष्ठे " ( पा० सू० २ । ३५० ) इति सूत्रात् कारकप्रातिपदिकार्थभिन्नः स्वस्वामिभावादिसम्बन्धश्च तत्र शेषपदाऽर्थः । तत्राऽन्यविभक्तीनां मतभेदन ध
(१) कारकविभक्तीनामिति शेषः । एवं चोपपदविभक्तीनां स. स्बन्धार्थकत्वं फलति ।
(२) वस्तुतस्तु निपातानामनेकार्थत्वादपिरत्रावधारणे । तथाच व्यापार एवेत्यर्थः ।
२८