SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ .. सुषर्थनिर्णयः । ..... तीनां धर्मिवाचकत्वात् । धर्ममात्रवाचकत्वे, "कर्मणि द्वितीया" (पा० सू० २ । ३ । २) इति सूत्रस्वरसभापत्तेः । कर्मार्थ रिक्ताऽभेवसंसर्गस्याऽपि भानात् प्रातिपदिकाऽर्थमात्राऽभानात प्र. थमा न प्राप्नोतीत्यतः प्रथमाया उपसलयानमारब्धव्यमित्यर्थान्न त. द्विरोधोऽपि । कैयटेनाऽपि, न वाक्याऽर्थत्वादिति तत्प्रत्याख्यानावसरे वीर. प्रातिपदिकादनपेक्षितशब्दान्तरोहितविशेषणभावान् स्वार्थमात्रनिष्ठात प्रथमा विधीयते इत्यत्र प्रतिपादितपदमपहायोहितशब्दं प्रयुञ्जा. नेन विशेष्यविशेषणभावनियामकत्वमितरसम्बन्धस्यैवाङ्गीकृतम् । - वस्तुतस्तु प्रकृते विशेष्यविशेषणभावस्य सम्बन्धतानुपपनैव सम्बन्धस्य सम्बन्धिभेदनियतत्वादिति त्वदुक्तेः। विशेष्यविशेष. णयोर्भाव इति व्युत्पस्या तस्य विशेष्यत्वविशेषणत्वमात्रपर्यवसा. यितया प्रत्येकं तयोरद्विष्ठत्वाचाऽनुयोगित्वप्रतियोगित्वाभ्यां विष्ठः त्वोपपादनेऽप्येकस्यैव सा स्थान समुदितयोईयोः। स्वस्वामिभा. ववत् शब्दानुगममात्रस्याऽर्थाऽपरिच्छेदकत्वात् सम्बन्धान्तरे ब. ष्ठी, न विशेष्यविशेषणभावसम्बन्धे इत्यत्र मानाभावाच । तस्माद्य थोक्तमेव रमणीयमिति । ननु विभक्तीनां धर्मवाचकत्वस्य तन्त्रा. न्तरसिद्धतया कथं तत्र प्रकृत्यर्थस्याभदेनाऽन्वयः, अयोग्यत्वादत आह * विभक्तीनामिति * ॥ कारकविभक्तीनामित्यर्थः। धमिवाचकत्वात्-शक्तिमच्छक्तत्वादित्यर्थः ॥ .... • नन्वस्तु शक्तिरवाऽर्थोऽत आह *धर्मवाचकत्व इति* ॥ *सुत्रस्वरसभापत्तेरिति * ॥ तद्घटककर्मादिपदानां धर्मपरतां विनो. तार्थाऽलाभात्तत्परत्वे तद्भङ्गः स्पष्ट एवेत्यर्थः । तथाऽर्थस्य सूत्रकारसम्मतन्वे, कर्मत्वे द्वितीयेत्याधेव ब्रूयादिति भावः।। __ननु कर्मणीत्यादौ विषयसप्तमीबोध्य इत्यर्थः। तथाच विभक्तीनां धर्माऽवाचकत्वेऽपि तस्याश्रतया प्रकृत्यर्थेऽन्वयेन कर्मबोधा. त तत्फलान्वयिनी वृत्तिरेव द्वितीयार्थ इनिमतेऽपि तुल्यवित्ति द्यतया तण्डुलादीनां फलाश्रयकर्मवादिना भानान्न सुत्रस्वरसभा ङ्गोऽत आह * कर्मार्थकति * ॥ कृति पक्कस्तण्डुल इत्यादौ। तद्धि.
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy