________________
२१३
सुवर्थनिर्णयः। प्रेरणानुपतिभ्यां च लभते सम्पदानताम् (१) ॥ इति वाक्यपदीयात त्रिविधम् । “मूगार्यायं ददाति" इत्या. यम् । नात्र सूर्यः पार्थयते, नानुमन्यते, न निराकरोति । प्रेरकं, "विप्राय गां ददाति" अनुमन्तु, "उपाध्यायाय गां ददाति" ।
अत्र सर्वत्र प्रकृतिप्रत्ययार्थयोरभेदः संसर्गः(२) । विभ
. इदं च विशेष्यं तद्भवनियामकमाह * अनिराकराणादिति ॥ प्रवृत्तिनिवृत्यन्यतराऽनुकूलव्यापारशन्यत्वादित्यर्थः॥ *प्रेरणेति ॥ अप्रवृत्तस्य कर्तुस्त्यागादाविष्टसाधनताबोधनं प्रेरणाजातेष्टसाधन. ताबोध अप्रामाण्यशङ्कया शिथिलस्य कर्तुस्तादृशशङ्काविधूमनक्षमप्रमाणोपन्यासेन प्रवर्सनं कर्मनिष्ठस्वत्वादिफलाऽभ्युपगममात्राऽनु. कूलव्यापास्वत्वं वाऽनुमतिस्ताभ्यामित्यर्थः । एवञ्च प्रकृतधात्वर्थकर्मजन्यफलभागितयेच्छाविषयत्वे सति कर्तप्रवृत्तिनिवृत्यन्यतरा. नुकूलव्यापाराऽभाववत्वमनिराकर्तृत्वम् । निरुक्तविषयवत्वे सति का र्नुसम्बन्धित्यागादिविषयकेष्टसाधनताबोधीपयिकव्यापारवस्वं प्रे. रकत्वमित्याह्यम् ॥
* सूर्यायायें ददातीति * ॥ अत्र मतभेदेन दाधातोः परस्व. स्वेच्छाधीनस्वस्वत्वाभावेच्छारूपः । परस्वत्वगोचरस्वस्वत्वाभावे.
छारूपो वा त्यागोऽर्थः । अन्वयबोधस्तु "नमः स्वस्ति" (प.० १० २.३।१६) इतिसूत्रोक्कदिशोहनीयः॥ सर्वति* ॥न तत्सूत्रविहि. सद्वितीयाद्यन्तप्रयोगम्वित्यर्थः॥ *अभेदःसंसर्ग इति* ॥ अभेदात्मकः संसर्गो विशिष्टबुद्धिनियामको विशेष इत्यर्थः। अभेदसंसर्गका. - (१) कर्तुः कर्मणा ईप्सितम्, अनिराकरणात् अप्रत्याख्यानात, प्रेरणानुमतिभ्याम-दानविषयकप्रेरणानुमतिभ्यां त्यागानम्-त्याग. निर्वाहकम्, अर्थात् कारकम् । एतादृशं संप्रदानसंज्ञां लभते इति पंद्यार्थः। ___(२) मीमांसकमते देवतार्थकतद्धितादौ रष्टस्य प्रत्ययार्थ प्रक. स्यर्थस्याभेदसम्बन्धेन विशेषणत्वस्य व्याकरणशानेऽप्यवशस्वी. करणीयतया आह अत्र सर्वत्रेत्यादि।