SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २१२ दर्पणसहिते वैयाकरणभूषणसारे मित्येवाहुः । इदा ___ अनिराकरणात् कर्तुस्त्यागाङ्गं कर्मणेप्सितम् । स्पेन तत्र द्रव्ये स्वत्वावगाहिनीच्छाविसंवादिरूपैव । अन्यदायस्व स्खे बाधितं शिवादिनिरूपितत्वं शिवादिनिरूपितप्रसिद्धस्वस्वान्तरे वा बाधिततद्र्व्यसम्बन्धमवगाहते। तत्र प्रथमे स्वत्वप्रकारकेच्छाजन्यत्वं जन्यतासम्बन्धेन तारशेमावस्वं वा चतुर्थ्यर्थः। तत्र प्रकृत्यर्थस्य शिवादेर्विषयताविशेष. सम्बन्धेनाऽन्वयः । द्वितीये विषयताविशेष एव सः । तत्र च प्रकृ. त्यर्थशिवादेर्निरूपितत्वसम्बन्धेनाऽन्वयः । नमः पदार्थत्यागस्य विषयताविशेषसम्बन्धेनाऽर्धादिद्रव्येऽन्वयः । द्रव्यस्यैव वा विशे. प्यतया भासमानत्यागेऽन्वयः । शिवायोत्सृजतीत्यादाविप नाश. निराकर्नेसम्प्रदानता नमः पदस्याऽधातुत्वात् । ... ममः पदेन च स्वप्रयोक्तृपुरुषककत्वोपरागेणैव त्यागे बोध्य. ते । अम्याचरितनमःपदेनान्यदीयत्यगाबोधनात् । तत्पुरुषोचारि. तनमः पदास्यागबोधे त्यागे त्यज्यमानद्रव्ये च तदीयत्वसंशयाऽनु. दयात् अत एव तदीयत्वबोधनायाऽहं दद इतिवद्, अहं नम इत्या. दिन प्रयुज्यते । ऋत्विजा च यजमानरूपपुरुषान्तरीयद्रव्यत्यागे स्वीयत्वमारोप्यैव पूजायां नमः पदं प्रयुज्यते । स चारोपस्तस्मिन् विशेषदर्शनदशायामहार्यतयोपपद्यते । प्रतिविधिप्रयुक्तदानवाक्ये च पूजायां नमःपदघटिवाक्यस्य बाधितार्थकत्वेऽप्यदृष्टजनकत्वं न विरुद्धम् । शाखप्रामाण्यादित्यायन्यत्र विस्तरः॥ .. तद् विभजते * इदमिति ॥ "कर्मणा यमभिप्रैति" (पा० सू० १।४।३२) इति सङ्केतितं सम्प्रदानं चेत्यर्थः ॥ त्रिविधमित्यने. नाऽन्वितम् ॥ त्यागाङ्गं कर्मणेप्सितं कर्तुरनिराकरणादित्रिभ्यः सम्प्रदानव्यपदेशं लभत इति योजना । स्वनिष्ठोद्देश्यतानिरूपकरष. सम्बन्धेन त्यागे समभिव्याहृतधात्वर्थे विशेषणतया प्रतीयमानत्वं सदत्वम् । तेन वृक्षायोदकमासिश्चतीत्यादौ न वृक्षादेराधिक्यम (१) *कर्मणेप्सितमिति ॥ कर्मजन्यफलभागितयेक्छाविषयः। (१) वस्तुतस्तु वृत्तिन्मते नायं विभागः। तथाच वृक्षादेरसं. प्रहेऽपि म क्षतिः।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy