SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ सुबर्थनिर्णयः २११ प्रयोजनत्वं च न जन्यत्वं दुःखाय पापमित्यस्याऽप्यापत्तेः । नाऽपि जन्यत ग्रेच्छविषयत्वम् । स्वर्गादेः पुण्यादिजन्यतयेच्छाविषयत्वेन स्वर्गीय पुण्यमित्यापत्तेः । नचेष्टापत्तिः । तथा सति पक्तुं व्रजतीत्यर्थे, पाकाय व्रजतीति प्रयोग निर्वाहाय, "तुमर्थाश्च" ( पा० सू० २ । ३ । १५ ) इति सूत्रप्रगायनवैयर्थ्यापत्तेः । पाकादेर्निरुक्तवज़नाद्यर्थतयैव तद्वाचकाद्वार्त्तिकेन चतुर्युपपत्तेः । अपि तु समभिव्याहृनपदाऽर्थनिष्ठच्या पारेच्छानुकूलेच्छाविषयत्वम् । तत्प्रयोजनकत्वरूपं तादर्थ्य तु तदिच्छाधीनेच्छाविषयव्यापाराश्रयत्वम् । दारुणो यूपेच्छाधीनेच्छाविषयलक्षणादिरूपव्यापारवत्तया यूपाऽर्थत्वात्त द्विवक्षया यूपपदाच्चतुर्थी । तदर्थश्वेच्छाधीनेच्छाविषयव्यापारा श्रयत्वम् । प्रथमेच्छायां यूपादेः प्रकृत्यर्थस्य विषयित्वेनाऽन्वयः । तस्याऽऽश्रयतया दार्वादावेवं रन्धनाय स्थालीत्यादावप्यूह्यमिति केचित् । तंत्र मनोरमम् । तादर्थ्यस्योक्तरूपत्वे, मुक्तये हरिं भजतत्यित्र चतुर्थ्यनुपपत्तेः । न हि भजनस्य मुक्तीच्छाऽधीनेच्छाविषयव्यापारचत्ता । नाऽपि मुक्तेः सम्प्रदानता, कर्मजन्यफलभागितयाऽनुद्देइयत्वात् । तस्मात्तदिच्छाधीनेच्छाविषयत्वमेव तत्तादर्थ्यम | स्वमग पुण्यमित्यादयस्त्विष्यन्त एव । वार्त्तिकं दृष्ट्वा सूत्रकृतोऽप्रवृत्तेर्न "तुमर्थात्" इतिसूत्रानुपपत्तिरपीति । नमः स्वस्त्यादिशब्दयोगे • Sपि तदर्थविशेषणवाचकात् "नमः स्वस्ति" ( पा० सू० २ । ३ । १६ ) इति सूत्रेण चतुर्थी विधीयते । तत्र नमः पदार्थस्त्यागो नति श्च । तत्र नतिः स्वाऽपकर्षबोधनाऽनुकूलो व्यापारो, 'हरये नमः - इत्यादी त्यागः । चतुर्थ्यां च तत्रोद्देश्यत्वम् | त्यागश्च यदि शिवस्वायं भवत्विति फलेच्छाऽधीनो न ममेत्याकारकः स्वस्वत्वेच्छा भावरूपस्तदा तदुद्देश्यत्वं त्यागजन केच्छायाः स्वत्वभागितया विषयत्वम् । यदि त्यागरूपेच्छैवाऽन्यदीयत्वेन त्यज्यमानगतं स्व त्वमपि विषयीकरोति तदा स्वत्वभागितया विषयत्वमेव तदुद्देश्यत्वम् । न तु स्वीकाराश्रयत्वम् । शिवादेर्विग्रहवतोऽपि स्वीकाराsभावात्तदाऽऽकारकतया ध्यातस्य मन्त्रस्य त्यागोद्देश्यतामते त भावाच्च । त्यज्यमानोपचारादौ शिवादिनिरूपित स्वत्वाभावेऽपि तदीय
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy