________________
दर्पणसहिते वैयाकरणभूषणसारे क्लं ददातीत्यपि, खण्डिकोपाध्याय: (१)शिष्याय चपेटा ददा. तीति भाष्योदाहरणादिष्टमेव(२)। .. : ... वृत्तिकारास्तु-सम्यक् प्रदीयते यस्मै तत् सम्प्रदानमित्य. वर्थसंज्ञया स्वस्वत्वनिवृत्तिपर्यन्तमर्थ वर्णयन्तो रजकस्य वस्त्र.
स्या परिहरति रजकायेति * ॥ तत्र प्रमाणमुपन्यस्यति खण्डि. कोपाध्याय इति* ॥ *ददातीति ॥दाधात्वर्थसंयोगसम्बन्धित्वेने. च्छाविषयत्वरूपोद्देश्यत्वस्य तत्र सत्वादिति तद्भावः। अस्मिन् प्रयो गे ददातिः संयोगानुकूलव्यापाराऽर्थकः चिपेटापदार्थस्तु प्रसृतकर. तलम् । “न शूद्राय मतिं दद्यात्" इत्यत्र ददातिर्योधनार्थकः । मतिपदार्थश्च तजनकं वेदादिशास्त्रमिति बोध्यम् । . . . . . . . __ *स्वस्वत्वानिवृत्तीति । परस्वत्त्वोत्पत्यवच्छिन्नस्वस्वत्वध्वंसे. छारूपं व्यापारम्, अर्थ-दाधात्वर्थमित्यर्थः। तथाचोक्ताऽर्थकदाधात्वर्थकर्मनिष्ठफलभागितयेच्छाविषयत्वमेव सम्प्रदानत्वम् । अन्वः र्थमहासंज्ञाकरणसामर्थ्यादुक्तस्थले च ददातेस्तदर्थकत्वाभावेन र. जकस्थ वस्त्रं ददातीत्येवेतिं तेषामाशयः । उक्तभाष्यप्रामाण्याद. स्वर्थत्वमेवाऽसिद्धम् । महासंशाकरणं तु प्राचामनुरोधादेव, सर्व. नामस्थानसंशावदित्यस्वरसादाहुरिति ।।
नवजां ग्रामं नयतीत्यत्राजायां निरुक्तसम्प्रदानस्य सत्वात्तद्वा. चकाचतुर्थ्यापत्तिरिति चेत् स्यादेव यदि परया कर्मसंशया सम्प्रदानत्वस्य न बाध इति । 'यूपाय दारु' इत्यादी न सम्प्रदानचतु. थीं, अपि तु तदर्थे । तादर्थ्य च, स एवार्थः प्रयोजनमस्य तत्व. म् । समभिव्याहताऽर्थे तादर्थ्यविवक्षायां तद्वाचकाचतुर्थीति. 'ताद: र्थे चतुर्थी वाच्या' इति वार्त्तिकार्थः। . . (१) स्खण्डिकोपाध्यायः-बालकशिक्षक इत्यर्थः ।।
(२) नच 'रजकाय वस्त्रं ददाति' इति प्रयोगो भाक्त इति. शं. क्यम् । 'क्रियाग्रहणम् कर्तव्यम्' इति वार्तिकं खण्डयता माध्य. कारेण संप्रदानसंज्ञाया अन्वर्थत्वानीकारेण उक्तप्रयोगस्यैव मुख्यत्वात् ।