________________
सुवर्थनिर्णयः।
२०९ दण्डप्रदानम्" ( अ० ४ पा० २ अ० ६) इत्यधिकरणे क्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छतीति विहितं दण्डदानं न प्रति. पत्तिः, किन्तु चतुर्थी श्रुत्यार्थकर्मेति तत्र निर्णीतम् । रजकाय
कमैव भवितुमर्हति सप्रयोजनत्वात् । प्रतिपत्तितायां तु अपूर्वाभावे निरर्थकमेव स्यादिति पूर्वपक्षे- .. ___ "कृष्णविषाणया कण्डूयति" इति श्रुत्या कृतार्थस्य प्रतिपस्य. पेक्षत्वात् प्रतिपत्तिकर्मतैव युक्ता। न चाऽनर्थक्यम् । प्रासनक्रिया. प्रयुक्तापूर्वाभावेऽपि चात्वाल एति नियमापूर्वसद्भावादिति सिद्धान्तितम् । तदण्डदानं न प्रतिपत्तिरिति योजना ॥ इत्यधिकरण इति ॥ चतुर्थाध्याय इति शेषः।
ज्योतिष्टोमं प्रकृत्यैव, "मैत्रावरुणाय दण्डं प्रयच्छति" इति श्रूयते। तत्र दण्डदानस्याऽर्थप्रतिपत्तिकर्मभावसन्देहेऽध्वर्युणा दीक्षासि दत्तदण्डस्याऽसोमक्रयाद्यजमानधारणेन कृताऽर्थस्वादुपयुक्तस्य तस्य दानं प्रतिपत्तिकमैवेति पूर्वपक्षे, “दण्डी प्रैषानन्याह"इति श्रव. णान्मैत्रावरुणस्य प्रैषाऽनुवादेऽवलम्बनाय दण्डोपेऽक्षितः । एवश भावष्यदुपयोगसद्भावात् दानव्याप्यमानदण्डव्याप्यमानत्वेन मै. त्रावरुणस्य प्राधान्याच्च दण्डदानस्य प्रतिपतिकर्मण उपयुक्तसं. स्काररूपादर्थकम्मैवोपयोक्ष्यमाणसंस्काररूपत्वेन प्राशस्त्यावार्थकर्मतैवोचिता । उपयोजयितुमेव सर्वत्र संस्कारप्रवृत्तेः। उपयुक्तत प्रतिपत्तिरूपसंस्कारस्य सत्कारमात्रपर्यवसायित्वंन कार्यपर्यव. सानाऽभावादप्रशस्तत्वमतो मैत्रावरुणसंस्काराय तहानमर्थकर्म । तथा सति निरूढपशौ असत्यपि दीक्षिते दण्डसम्पादनस्वैव दान प्रयोजकमिति सिद्धान्तितम् । ___ अर्थकर्मत्वे च शेषित्वं प्रयोजकम् । तच चतुर्थी श्रुत्या मैत्रावर णस्य बोध्यत इत्याह *चतुर्थीश्रुत्येति* ॥ ननु यत्र दाधातुरधीनी. करणाद्यर्थकस्तत्राऽधीनस्वादिरूपफलनिरूपकतयेच्छाविषयत्वरूप. सम्प्रदानत्वस्य रजकादावपि सम्भवात् "रजकाय बलं ददाति," "होये उष्ट्रं ददाति" इत्यादिप्रयोगाः प्रसज्ज्वेरमित्याशङ्कामिष्टाप.