SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ .. सुवर्थनिर्णयः। २०७ ... नैयायिकास्तु-परस्वत्वेच्छाधीनस्वसत्वध्वंसेच्छा त्याग इति मते स्वस्वत्वध्वंसावच्छिन्नत्यागो ददात्यर्थः । विशेष्यत्वं चतुर्थ्यर्थः । तस्य स्वनिरूपकनिरुक्तेच्छाजन्यत्वसम्बन्धेन ददात्यर्थत्यागे गोरू. पकर्मणस्त्वाधयतया स्वस्वत्वध्वसरूपफले । तथाच गोवृत्तिस्वस्वस्वध्वंसजनको निरुक्तसम्बन्धेन विप्रनिष्ठविशेष्यताविशिष्टो यस्त्यागस्तदाश्रयश्चैत्र इति वाक्याद् बोधः। .. यदि तु गौर्विप्रस्य भवतु न ममेतीच्छैव त्यागो दाधात्वर्थः। एवञ्च उक्तस्थले निरूपितत्वेनेच्छाविषयत्वं चतुर्थ्यर्थः । तस्य च स्वस्वत्वध्वंसेऽन्वयादू विप्रनिरूपितत्वेन इच्छाविषयगोवृत्तिस्वस्व. त्वध्वंसपूर्वकपरस्वत्वात्पत्यवच्छिन्नत्यागाऽऽश्रय इति बोधः। जन्यस्वत्वस्य गोवृत्तित्वेऽवगतेऽर्थात्तस्मिस्तजन्यत्वं लभ्यते एवेति गो. जन्यस्वत्वनिरूपकत्वेनेच्छाविषयत्वरूपमुद्देश्यत्वं विप्रस्याऽक्षतम् । वृक्षायोदकमासिञ्चतीत्यत्र तु संयोगाऽवच्छिन्नद्रवद्रव्याक्रियाऽवच्छि. अव्यापारो धास्वर्थः। वृत्तित्वनेच्छाविषयत्वं चतुथ्यर्थः। स च धा. त्वर्थतावच्छेदकसंयोगाऽन्वयी। द्वितीयार्थवृत्तित्वं तु द्रवद्रव्यक्रिया. न्वति । तथाच वृक्षवृत्तित्वेनेन्छांविषयो यः संयोगस्तदवच्छिन्ना योदकवृत्तिव्याक्रिया तदवच्छिन्नव्यापारानुकूलकृतिमानिति बोधः। __न चैवं सिचधात्वर्थताऽवच्छेदकद्रवद्रव्याक्रियायां द्वितीयार्थवृ. त्तित्वान्वये, पयसा वृक्षं सिञ्चतीति न स्यात् । तादृशक्रियाया वृक्षा. वृत्तित्वादिति वाच्यम् । तत्र संयोगावच्छिन्नद्रवद्रव्यक्रियाया एव धात्वर्थतया तदवच्छेदकीभूतसंयोग एव वृक्षवृत्तित्वाऽन्वयानाऽनुप. पत्तिरित्याहुः॥ ... अपरे तु-विजातीयत्यागजन्यफलभागितयोदश्यत्वं सम्प्रदानत्वं चतुर्थ्यर्थः । एवञ्च विप्राय गां ददातीत्यादौ त्यागजन्यफलभागित्वप्र. कारकब्राह्मणवृत्युद्देश्यताकगाविषयकत्यागाश्रय इति बोधः । रुद्राय गां ददात्यित्र रुद्रस्य त्यागजन्यफलभागितयोद्देश्यत्वमस्त्येव । स्वत्वं तु तस्य जायते न वेत्यन्यत् । त्यागजन्यं फलं तु स्वत्वरूपं ग्राह्यम् । तेन पितृस्वर्गमुद्दिश्य दत्तायां गवि ब्राह्मणस्य सम्प्रदानस्वोपपत्तिः । पितुः स्वत्वरूप फलं नोहेश्यं, किन्तु स्वर्गः । ..पितृभ्यो दद्यादित्यादौ तु रुद्राय गां ददातीतिवत् सम्प्रदानत्व. मस्त्येव । त्यागे वै जात्यनिवेशाच्च न केतुः सम्प्रदानत्वम् । वृक्षायो
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy