SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ २०६ दर्पणसहिते वैयाकरणभूषणसारे सूत्रात् कर्मणा-करणभूतेन (१)यमभिप्रैति-ईसति तत् कारक सम्प्रदानमित्यर्थकादुद्देश्यम् । षयत्वं, तच, विप्राय गां ददातीत्यत्र क्रियाजन्यफलभागितया कामनाविषये गवादावतिप्रसक्तमतस्तव्यावृत्तम्, तत्सूत्रप्रामाण्येन दर्शयति *तच्च कर्मणेत्यादि* ॥ कर्मणत्यनन्तरम् , सम्बन्धुमिति शेषः। कर्म चाऽत्र पारिभाषिकम् । “कर्मणा यमाभप्रैति" (पा० सू०१।४ । ३२) इति क्रियाव्याप्यमानस्य सम्प्रदानसंशाविधा. नात् । अत एव तदकर्मकविषयम् । ननु ग्रामं गच्छतीत्यत्र ग्रामरूपकर्मजन्यसुखादिफलभागितयो. हेश्ये कर्तरि अतिप्रसङ्गोऽत आह करणभूतेनेति * ॥ करणत्वं च सम्बन्धक्रियाऽपेक्षम् । क्रियाव्यवाहतव्यापारवत एव करणतया व्यापारे कर्मवृत्तित्वलाभन तवृत्तित्वस्य धात्वर्थतावच्छेदकफल एव सम्मवात । कर्मवृत्तितजन्यत्वस्य प्रेमजन्यसुखे असत्त्वानोक्तातिप्रसङ्ग इति भावः । यमित्यस्यानुपादाने योऽभिप्रेतीत्यर्थस्यापि लाभात प्रथमान्तकर्तर्यतिप्रसङ्गः स्यादतस्तदुपात्तम् । यद्यपि गौाह्मणस्य भववितीच्छाविशेष्यतया गामेवाऽवगाहते तथा सूत्रफलितार्थपरत्वान्न दोषः। तथाच कर्मजन्यतसिफ लभागित्वप्रकारको यद्विशेष्यकोऽभिप्रायः स सम्प्रदानमिति सत्रा. ऽर्थः । तारशफलसम्बन्धिकप्रकारतानिरूपितविशेष्यताश्रय इति यावत् । . विप्राय गां ददातीत्यादौ परस्वत्यजनकस्वस्वत्वध्वंसावच्छिन्ने च्छात्मकस्त्यागो दाधात्वर्थः । उद्देश्यत्वं चतुर्थ्यः । गोरूपकर्मणश्चाऽऽश्रयत्वेन स्वत्वरूपफले । तथाच गोवृत्तिस्वत्वजनकस्वस्वत्वध्वं. साऽनुकूलो विप्राऽभिन्नोद्देश्यकस्त्याग इति वैयाकरणमते बोधः। उद्देश्यत्वं च विप्रे गोजन्यस्वत्वभागितयेच्छाविषयत्वमेव एवं वृक्षा. योदकमासिञ्चतीत्यत्राप्युदकनिष्ठक्रियाजन्यसंयोगफलभागितयेच्छा विषयत्वात सम्प्रदानत्वमूहम ॥ (१) कर्मणः करणत्वं च संबन्धविषयकेच्छारूपाभिप्रायघटक. संबन्धघटकसत्वादिद्वारा बोध्यम् ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy