________________
दर्पणसहिते घेयाकरणभूषणसारे मचैवमपि, वृक्षात् सजतीति दुरिम् । कर्मसंज्ञया अपादानसंज्ञाया बाधेन पञ्चम्यसम्भवात् । भ्रमात् कृते तथा प्रयोगे पदि बोधाभावोऽनुभवसिद्धस्तर्हि पञ्चमीजन्यापादानत्वबोधे स्यजादिभिन्नधातुजन्यबुद्धहेतुत्वं वाच्यम् । बलाहकाद् विद्योतत - इत्यादौ निःसत्येत्यध्याहार्यम् । (१)रूपं रसात् पृथगित्यत्र तु बुद्धिपरिकल्पितमपादानत्वं द्रष्टव्यम् । पृथग्विनेति पञ्चमी वा। इदश्च
नचैवमपीति * ॥ एवमपि धात्वर्थविभागाऽऽश्रयत्वस्याऽपादा. नसंज्ञानियामकत्वेऽपीत्यर्थः ॥ * दुर्वारमिति* ॥ धात्वर्थक्रियाजन्यविभागाश्रयत्वादिति भावः ॥ *कर्मसंशयति* ॥ वृक्षस्य त्यजर्थ. व्यापारजन्यविभागाश्रयत्वादिति भावः । पूर्वमतिप्रसङ्गः कर्त्तसंज्ञा. मादायैवोक्तः । इदानीं तु कर्मसंज्ञामादाय प्राप्तः स निवारित इति बोध्यम् ॥ *अनुभवसिद्ध इति* ॥ ... वस्तुतो विभागाऽवधित्वस्य वृश्शे अबाधात्तजन्यबोधस्य प्रमात्वमिष्टमंव । विभागाश्रयस्यैवाऽवधित्वोक्तः । त्यजतेः पतत्यर्थ लक्षणाग्रहदशायां, वृक्षात् पर्ण त्यजतीति प्रयोगस्य प्रमाणिकत्वेन का. रणतावच्छेदककोटी त्यजादिभिन्नत्वस्य धात्वंशे निवेशयितुमश. क्यत्वादित्यभिप्रेत्योक्तम् ॥ * यदीति* ॥ *बलाहकादिति * ॥ धूम. मरुज्ज्योतिः समूहों बलाहकः । ततोऽवयवभूतज्योतिषामेव विभा. गविवक्षणात् सोऽवधिः । द्युतिश्च लक्षणया निःसरणपूर्वकविद्यो. तनबोधकः । तथाच बलाहकाऽवधिकनिः सरणोत्तरकालिकं विद्य. कर्तृकं विद्योतनमिति बोधः। *निःसृत्येति* ॥ निःसरणपूर्वके वि. द्योतेन धातोवृत्तिमुपगम्य पञ्चम्युपपाद्यत्यर्थः । अत एवोपात्तविशे. ध्यस्याऽन्तभोवो वक्ष्यमाणः सङ्गच्छते।
*बुद्धिपरिकल्पितामेति* । बौद्धविभागाऽवधित्वमाश्रित्येत्यर्थः।
(१) रूपं रसात्पृथगित्यत्र रूपे विभागपूर्वकसंयोगानुकूलव्यापा. ररूपनिः सरणस्य बाधादित्याशंका निराकर्तुमाह-रूपमिति ।