SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ - सुवर्धनिर्णयः। २०३ मात्रम् । (१)द्वितीयाऽर्थोक्तरीत्या प्रयोगातिप्रसङ्गस्यासम्भवेन वाच्यकोटी प्रवेशस्य गौरवेणाऽसम्भवादिति तु प्रतिभाति 1 न चैवमपि, वृक्षात् स्पन्दत इति स्यादिति शक्यम् । आसनाचलि. तो, राज्याच्चलित इतिवद् इष्टत्वात् । एतेन पञ्चमीजन्यापादानत्वबोधे सकर्मकधातुजन्योपस्थितेहेतुत्वमिति समाधानाभासोऽप्यपास्त:(२)। . . * द्वितीयार्थोक्तरीत्येति * ॥ चैत्रो ग्रामं गच्छतीतिवचैत्रः स्वं गच्छ. तीति वारणाय परया कर्तुसंज्ञया बाधादित्युक्तरीत्येत्यर्थः । नम्वेवं. वृक्षात् पर्ण पततीत्यत्र पर्णेऽपि विभागाश्रयत्वस्यविकल्यात तदुत्तरं पञ्चम्यापत्तिरत आह * अतिप्रसङ्गस्येति ॥ (३) स्यन्दस्य प्रस्रवणजन्यविभागाश्रयत्वस्य वृक्षे सत्वादतिप्रसङ्गमाशंकय निषे. धति * नचेति * ॥ * एवमिति * ॥ विभागाश्रयत्वमात्रस्याऽपादानसंज्ञानियामकत्वे इत्यर्थः ॥ ___ * स्यादिति * ॥ प्रस्रवणस्याऽधोदेशसंयोगाऽनुकूलद्रवद्रव्य. क्रियारूपतया विभागस्य धात्वर्था भावेन परमते आपत्त्यसम्भवादित्याशयः ॥ * इष्टत्वादिति* ॥ चलत्यर्थक्रियाजन्यविभागाश्रय. त्वस्येव तदर्थक्रियाजन्यविभागाश्रयत्वस्यापि पञ्चमीनियामकत्वे क्ष. तिविरहादित्यर्थः । चलतेर्गत्यर्थकत्वेऽपि, राज्याचलित इति प्रयोग विभागानुकूलक्रियापरत्ववत् स्यन्देरपि तदर्थत्वमुपगम्यापत्तेरिष्ट. स्वमिति भावः । जलमत्र कर्नु । वृक्षस्यैव कर्तृत्वविवक्षायां तु पर. या कर्तृसंज्ञया बाधेनोक्तांपत्तरसम्भवादिति भावः। . (१) ननु आश्रयान्तनलस्यावाच्यत्वे देवदतो प्रामादायातीत्य. त्र देवदत्तादिति प्रयोगापत्तिर्विश्लेषाश्रयत्वादत आह-द्वितीयार्थीतति । (२) वृक्षारस्पन्दते इति प्रयोगवारणाय ताशहेतुहेतुमद्रावांगीकारे 'आसनाचलित' इत्यादिप्रयोगस्येष्टस्यानिर्वाह इति तारशहेतु. हेतुमद्भावो नाभ्युपेय इति भावः । (३) 'वृक्षात्स्यन्दते'इतिपाठं मरवा व्याचष्टे-स्यन्दस्येत्यादि।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy