SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ २०२ दर्पणसहिते वैयाकरणभूषणसारे वस्तुतो नैतावत् पञ्चम्या वाच्यम् । किन्तुं अवधेर्लक्षण: ध्यापारे व्यापारावच्छिन्नफले च धातोः शक्तिमङ्गीकुर्वतः स्वोक्तफ. लत्वानाक्रान्तविभागस्य धात्वर्थव्यापारावच्छेदकत्वासम्भवाच । पततेः संयोगरूपफलाऽर्थकत्वे ग्रामं गच्छतीतिवद् ग्राम पतती. त्यापत्तिरिति तु न । शब्दशक्तिस्वाभाव्येन तदुपस्थितसंयोगस्याऽ. धोदेश एवान्वयात् । प्रामस्य तत्त्वे तु, विहगो ग्रामं पततीति त्विष्टः मेव । अत एव, नरकं पतित इति विग्रहे द्वितीयासमासविधानं स. गछते । न च वृक्षमजहत्यपि पर्ण भूमि स्पृशति, वृक्षात् पर्ण पत. तीत्यापत्तिः । तदुस्थाप्यक्रियाजन्यदेशाऽन्तरविभागे वृक्षावधिकरवानुपगमात् । अन्यथा क्रियाजन्यसंयोगमात्रस्यैव विभागजन्य. त्वेन भूमिपर्णसंयोगस्याऽपि तथात्वात स्वन्मतेऽपि ताहशप्रयोगस्य दुर्वारतापत्तेः । अत एव, . गतिर्षिना ववधिना नाऽपाय इति कथ्यते । . वृक्ष्यस्य पर्ण पततीत्येव भाष्ये निदर्शितम् ॥ .इत्यवध्यन्वययोग्यविभागाऽनुकूलत्वं विना संयोगजनिका क्रिया माऽपायः। अत एव पर्णविशेषणतया वृक्षविवक्षायामपायस्याविव. क्षणाद् वृक्षस्य पर्ण पततीत्यत्र भाष्ये षष्ठ्युक्तेत्येतदर्थकं हरिणो. क्तम् । विभागजन्यसंयोगस्य पूर्वापरीभूतानवयवकत्वेन च व्यापा. रस्वाभावेन विभागस्य तदुक्तफललक्षणानाक्रान्तत्वेन तदुभयार्थकस्य पततेर्धातुत्वानापतेश्व। . ... यत्र'च गृहादपसरतीत्यादी विभाग एव धात्वर्थम्तत्राश्रयोऽवधिमात्रं षा पञ्चभ्यर्थः । तस्याधेयतया स्वनिष्ठाऽवधित्वनिरूपकत्वेन 'वा यथायथं विभागेऽन्वयः । परस्परस्मान्मेषावपसरत इत्यादौ तु मेषपदवाच्यत्वावच्छेदेनैव कर्तृत्वविवक्षा, न परस्परवाच्यत्वावच्छे. देनेति, न पञ्चम्यनुपपत्तिरिति । . उक्ताऽपादानत्वस्य पञ्चमीवाच्यतावच्छेदकत्वे गौरवं मनस्याधायाह * वस्तुतः इति * ॥ * लक्षणमात्रमिति * ॥ मात्रपदन शक्यताऽवच्छेदकत्वव्यवच्छदः । तथाच व्यावृत्यादिफलकं निरु. कावधित्वमेव । पञ्चम्यर्थस्तु विभागाश्रयमात्रमेवति भावः ॥
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy