SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ नुवर्थनिर्णयः। .. २१. कमजविभामवति वस्त्रे, वृक्षाद् वस्त्रं पततीति सङ्गच्छते। .. मते तु तत्र वृक्षस्याऽपादानत्वं दुरुपपादमेव ॥ * सङ्गच्छत इति* ॥ तादृशवृक्षनिष्ठाक्रयायाः प्रकृतपतधात्वर्थत्वाऽभावेन तद्वति वृक्षे नाऽव्याप्तिरिति भावः (१) । ___ अत्र वदन्ति । पञ्चम्या आश्रय इव विभागोऽप्यर्थोऽविभागार्थ. कपतत्यादिसमभिव्याहारे करणतृतीयाया व्यापारवद् अनेकध्रातून विभागे शक्तिकल्पनाऽपेक्षया एकस्याः पञ्चम्यास्तत्र शक्तिकल्पः नायां लाघवात् । विभागस्य धात्वर्थत्वं द्वितीयादिस्थले इव विभा. गस्य धातुना लाभादाश्रयमात्रं पञ्चम्यर्थ इत्येव ब्रूयात् । अवधेरा श्रयात् पृथगुपादानधैयर्थ्यात् । त्यजिपत्योः पर्यायतापत्तेश्च । प्रकृ. तेऽधोदेशसंयोगाऽनुकूलक्रियैव, पतत्यर्थः । अधोदेशश्च संयोगांऽशे उपलक्षणम् । गम्युपात्तसंयोगफल उत्तरदेशवद् विभागाऽधीनपूर्व• देशसंयोगनाशमन्तरेण क्रियायाः संयोगजनकत्वाऽसम्भवात् । त. स्याऽविभागजनकत्वमक्षुण्णमेव । समानप्रत्ययोपात्तत्वप्रत्यासत्या व्युत्पत्तिवैचित्र्येणाश्रयरूपपञ्चम्यर्थस्य विभागरूपाऽपरतदर्थे आधेयतयाऽन्वयस्तस्य चाऽनुकूलतासम्बन्धेन पतत्यर्थक्रियायाम् । एवंश्च विभागस्य धात्वर्थत्वाभावान कर्मताप्रसङ्गलशोऽपि। यद्वा, अवधिरित्यनुगतव्यवहारादबधित्वमाश्रयत्वन्यायमख. ण्डोपाधिस्तदवच्छिन्न एव पञ्चम्यर्थः । अत एवाऽवधेराशयात् पृ: थगुपादानम् । तस्य च खानष्ठाऽधित्वनिरूपकविभागजनकत्वस. म्बन्धेन क्रियायामन्वयः । एवञ्च पृवकल्पे, वृक्षात् पर्ण पततीत्य. प्र वृक्षाऽभिन्नाश्रयकविभागजनकपणोऽऽश्रयकसंयोगानुकूलव्यापार इति बोधः। द्वितीये तु वृक्षाभिन्नाऽवधिविशिष्टा तादृक् क्रियेति विभागजन्यसंयोगो विभागजनकक्रियाया न पतत्यर्थः । पत्ल गता. वित्यनुशासनाद् गतिशदस्य, गम्ल गतावित्यादौ संयोगानुकूल. व्यापार एव प्रसिद्धः। त्यजथै गतिव्यवहाराभावाच । फलाऽवच्छि. (१) इद त्वत्र चिन्त्यम् । वृश्वकर्मजन्यावभागक्षणात्पनपतन: क्रियामादायैव तत्प्रयोगसंगतिर्वक्तव्या । नच सा सम्भवति पतधा. स्वर्थक्रियां प्रति वृक्षस्याजनकत्वेनाकारकत्वाविति ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy