SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ २०० दर्पणसहिते वैयाकरणभूषणसारे पूर्ण पततीयत्र पर्णस्य तद्वारणाय सत्यन्तम् । धावतोऽश्वात् पततीत्यत्राश्त्रस्य क्रियाश्रयत्वाद्विश्लेषहेत्विति । कुड्यात् पततोऽश्वात् पततीत्यत्राऽश्वस्य विश्लेषजनक क्रियाश्रयत्वेऽपि तम विरुद्धमित्याह- यस्मादश्वादिति ॥ तद्विश्लेषहेतु क्रियानाश्रयत्वे सतीति विशेषणीयमिति भावः । एत्रमश्वनिष्ठक्रियानाश्रपश्वात् कुख्यादेरपि ध्रुवत्वमित्याह तस्यापीति ॥ उभयकर्मजविभागस्थले विभागस्यैक्यात् तद्विश्लेषजनक - क्रियानाश्रयत्वाभावात् परस्परान्मेषावपसरत इति न स्या दिव्याशक्का सामाधत्ते - उभावपीति ॥ मेषान्तरेति । यथानिश्चलमेषादपसरद द्वितीयमेषस्थले निश्चलमेषस्यापसरम्मेषक्रियामादाय धुवत्वम् । तथात्रापि विभागक्येऽपि क्रियाभेदादेकक्रियामादाय परस्य ध्रुवत्वमिति । तथाच विश्लेषाश्रयत्वे सति तज्जनकतत्क्रियानाश्रयत्वं तत्क्रियायामपादानत्वं वाच्यम् । क्रिया चात्र धात्वर्थो न तु स्पन्दः । तेन वृक्ष · तद्विभागजनक तत्क्रियाऽनाविष्टत्वादित्यर्थः ॥ * क्रियाश्रयत्वादिति ॥ तथाचाव्याप्तिरिति भावः ॥ *विशेषणीयमिति ॥ तथाच विभागस्ततदूव्यक्तित्वेन निवेशनीय इति भावः । समाधत्ते -* प्रविभक्ते त्वित्यादिना तत्तन्मेषवृत्तित्वविशिष्टत्वेन भिन्नतयाऽवगत इत्यर्थः । *व्यवस्थिते इति ॥ तत्तन्मेषवृत्तित्वविभागजनकक्रिये तत्तन्मेषानाश्रित भवत एवेत्यर्थः । तदेवाऽऽह #मेषान्तरक्रियापेक्षमित्यादि* ॥ परस्परपदोपात्तयोरपादानत्वं तत्तन्क्रियाश्रयत्वान्मेषपदोपात्तयाः कर्त्तृत्वञ्चोपपद्यत इत्यर्थः । तत्तद्व्यक्तित्वेनाऽपि धात्वर्थ क्रिः याविशेषणीयेत्याह-*क्रिया चति ॥ *धास्वर्थ* इति । प्रकृतधात्वर्थ इत्यर्थः । * न तु स्पन्दमात्रमिति । यथाकथंचित्प्रतीयमानक्रियापीत्यर्थः । वृक्षकर्मजविभागवति वस्त्रे इत्युक्त्या वस्त्रद्वारकसम्बन्धेन क्रियान्वायत्वं वृक्षस्य सूच्यते । क्रियाजनकत्वं कारकत्वमिति
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy