SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ .:. . . सुवर्थनिर्णया! ...... सूत्राद्, अपायो-विश्लेषम्तजनकक्रिया तत्रावधिभूतमपादान. मिसर्थकादवधिभूतमिति भावः । उक्तश्च वाक्यपदीये-- अपाये यदुदासीनं चलं वा यदि वाऽचलम् । ध्रुवमेवाऽतदावेशासदपादानमुच्यते । पततो ध्रुव एवाश्वो यस्मादशात् पतत्यसौ । तस्याऽप्यस्य पतने कुण्ड्यादि ध्रुवमुच्यते ।। उभावप्यध्रुवौ मेषौ पयप्युभयकर्मके । विभागे प्रविभक्ते तु क्रिये तत्र व्यवस्थिते ॥ मेषान्तरक्रियापेक्षावधित्वं पृथक् पृथक् । : मेषयोः स्त्रक्रियापेक्षं कर्तृत्वञ्च पृथक् पृथग् ॥ इति । अस्यार्थः अपाषे(१) विश्लेषहेतुक्रियायाम् । उदासीनम् = अनाश्रयः । अतदावेशात् तक्रियानाश्रयत्वात् । एवञ्च वि. श्लेषहेतुक्रियानाश्रयत्वे सति विश्लेषाश्रयत्वं फलितम् । वृक्षाद समभिव्याहारे तु ताशदृशसप्तम्यर्थाऽभावो घटांशे भासते इत्याहुः॥ पञ्चम्यर्थ निरूपयति अवधिः पञ्चभ्यर्थ इति* I *विश्लेष इति विभाग इत्यर्थः। अवधित्वं च, प्रकृतधात्वर्थविभागजनकतकियाऽनाश्रयत्वे सति प्रकृतधात्वर्थजन्यविभागाश्रयत्वम् । करणादिकार. केऽतिव्याप्तिवारणाय विशेष्यम् । यत्किश्चित्क्रियाजन्यविभागस्य तथाऽपि सत्वादतिप्रसङ्गतादवस्थ्यमतस्तविशेषणं प्रकृतेति । एवञ्च वृक्षात पततीत्यादौ विभागजनकक्रिया पतत्यर्थः । यद्वक्ष्यति-यत्र धातुना गतिनिर्दिश्यते तनिर्दिष्टविषयमिति । अधिकं हरिपद्यव्या. ख्याऽवसरे ग्रन्थकृतव स्फुटीकरिष्यते ॥ उदासीनं-विभागजनकक्रियानाश्रयः । तद्वैविध्यमाह-चलमित्यादि । चलोऽश्वादिरचलो ग्रामादिः *तक्रियानाश्रयत्वादिति (१) अपायपदं विभागजनकक्रियापरं लक्षणयंत्याशयेन व्या. बष्ट विश्लेषहेतुक्रियायामिति ।। ...... ... ... ..... ..
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy