________________
दर्पणसहिते वैयाकरणभूषणसारे
अवधिः पञ्चम्यर्थः । "अपादाने पञ्चमी" (पा०सू० २।३।२९) तच्च (१) “भुवमपायेऽपादानम्" (पा० ० १ ४ । २४ ) इतिः
६९८
वैषयिकमिति । इक्शब्दस्य कोऽन्योऽभिसम्बन्धो भवितुमईत्यन्यदत उपश्लेषात् । "इको यणचि", उपश्लिष्टस्येति तत्राऽन्तरेण प्र. हणं संहितायामेव भविष्यति” इत्युक्तम् । अत्रां नश्लिष्टपदाऽध्याहारेण सप्तमीत्यर्थ इदमेव भाष्यं मानम् । संहितायामित्युपलक्षणम् । तत्र च "दीयते कार्ये भववत्" (२) इत्यादिसूत्रस्थभावस्यापि । तत्राऽधिकरणत्रैविध्यप्रतिपादनादिति ॥
नैयायिकास्तु-संयोगोऽनाधारः समवायेनाधार इत्याद्यनुगत प्रतीतिबलादाधारत्वमखण्डेोपाधिः । संयोगादिरूपं तु न तत् । कुण्डसंयोगिनो बदरादेरपि कुण्डाधारापत्तेः ।
"
ननु बदर प्रतियोगित्वविशिष्टसंयोगानुयोगितायाः कुण्डाधारताव्यवहारनियामकत्वाऽभ्युपगमानोक्तदोषो न वा कुण्डे कुण्डसंयोगानुयोगितासवेऽपि कुण्ड कुण्डमिति प्रतीत्यापत्तिः । कुण्डकुण्डप्रतियोगित्वविशिष्टसंयोगानुयोगितायास्तत्र विरहादिति चे देवमपि मल्ले मल्लाऽन्तरसंयोगसत्व उक्तानुयोगिता धन्यान्मले मल्ल इति व्यवहारापत्तेरशक्यवारणत्वेनोक्तप्रकारस्यैवाऽनुसर्त्तव्यत्वात् । तथाच तादृशमाधारत्वमाधेयत्वं वा सप्तम्यर्थः । कस्याधारत्व इत्याकाङ्क्षयां क्रियानिरूपितस्य तस्य बाधादुपस्थितत्वात् कर्त्तृकर्म -* गोराधार एवं सेति तयोरेव तदन्वयः ।
'भूतले घट' इत्यादौ न यत्र क्रियाश्रवणं तत्राऽपि कारकत्वनिवहाय तदध्याहारस्यावश्यकता । ईदृशस्थले परम्परासम्बन्धस्याSपि क्रियाऽन्वयित्वरूपकारकत्व घटकता, शास्त्रप्रामाण्यात् । अत पवाक्षशौण्ड इत्यादौ सामर्थ्योपपत्तिः । एवञ्च भूतले घटोs - स्तीत्यत्र भूतलवृतिर्घदो वर्तमान सत्ताऽऽश्रय इति बोधः । नञ
(१) ननु सूत्रेणापादानस्य पञ्चम्यर्थत्रलाभेऽप्यवधेः कथं तदर्थः स्वलाभ इत्यत आह- तच्चेति । तथाच सूत्रेणावधेः संज्ञांविधानातस्यापि पञ्चम्यर्थत्वम् ।
(२) अदिपदात् " तदस्मिधिकम्" इति सूत्रस्थं माध्यं प्रायम् ।