________________
सुवर्थनिर्णयः।
१९७
स्था न बाधः स्यात् । “कारके" (पा० सू० १।४।२३) इत्यधिकृत्य विहितप्तप्तम्याः क्रियाश्रय इत्येवं यद्यपि तात्पर्य तथाप्यत्र कर्तृकर्मद्वारा तदाश्रयत्वमस्त्येव स्थाल्यादे तल. कटादेश्चेति, 'स्थाल्यां पचति' 'भूतले वसति"कटे शेते' इत्यायु. पपद्यते । उक्तश्च वाक्यपदीये
कर्तृकर्मव्यवहितामसाक्षाद्धारयत् क्रियाम् । उपकुर्वत्र(१)क्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतम् ॥ इति ।
एतच्च विविधम् औपेश्लेषिक, वैषयिकमभिव्यापकश्च । 'कटे शेते' 'गुरौ वसति' 'मोक्षे इच्छास्ति' 'तिलेषु तैलम्' इति । एतच्च “संहितायाम" (पा० सू० ६ । १।७२) इति सूत्र भाष्ये स्पष्टम् ।
कर्तृकर्मद्वारेति * ॥ एताशाऽर्थलाभश्च तत्सूत्रसमाादेव। त. थाहि । कारकाधिकारीयेतेन क्रियान्वय्याधारस्याऽधिकरणसं. हा विधीयते । क्रिया च धात्वर्थः । साक्षादाधारयोः परा. भ्यां कर्तृकर्मसंज्ञाभ्यामाकान्तत्वादिद सूत्रमनवकाशं सत परम्पराघटके च कर्तृकर्मणी एवेति परया कर्मसंझया बाधादेव, मोक्ष इ. च्छास्तीतिवन्माक्षे इच्छति भवतीति न प्रयोगः
औपश्लेषिकमिति * सामीप्यसम्बन्धनिबन्धनमित्यर्थः । सा. माणस्यापि संयुक्तसंयोगरूपतया संयोगपदेन तस्यापि सडहात् माधेयव्याप्यताऽवच्छेदकयावावयवकमित्यर्थः । तत्राद्यस्य, कटे शेते, गुरौ बसतीत्युदाहरणे, द्वितीयस्य मोक्षे इच्छास्तीति, अन्स्यस्याऽस्यम् । कटे शेत इत्यत्र परम्परया कटाभिमाश्रयकः शयनाऽनुकूलो व्यापार इति बोधः। एवमन्यत्राऽप्यूहह्यम् ॥
*भाष्ये स्पष्टमिति* तत्रहि संहिताधिकारखण्डनाय, "संयोगः शक्योऽवक्तुम् । अधिकरणं नाम त्रिप्रकार-व्यापकमौपश्लेषिक
(१) "कारके " इत्यधिकारलब्धमर्थमाह-उपकुर्वदिति। स्वी. यया किया प्रधानक्रियनिर्तिकमित्यर्थः।