SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ दर्पणसहिते वैयाकरणभूषणसारे सप्तम्या अध्याश्रयोऽर्थः । “सप्तम्यधिकरणे च " ( वा०स०२ । ३। ३६) इत्यधिकरणे सप्तमी । तच्च "आधारोऽधिकरणम्" ( पा० सू० १ । ४ । ४५ ) इति सूत्रादाधारः तच्वञ्चाश्रयत्त्रम् । तलाश्रयांशः शक्यः । तच्वमनच्छदकम् । नचाश्रयत्वमात्रेण ककर्मकर्तृकरणानामाधार संज्ञा (१) स्यात् । स्यादेव, यदि ताभिर १९६ किन्तु “ध्यायताव लेलीयतीव” इति श्रुतरेध्यस्तं तत्तत्र वाच्यम् । अविद्योपस्थापितं तत् परस्यापि सम्भवति । "यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति" इति । विद्याऽवस्थायां तु तदभावो “यत्र तु सर्वमात्मैव स्यात् किं केन पश्येत्" इति श्रुतेः । यथा तक्षा वास्यादिकरणहस्तः कर्त्ता दुःखी भवति, स एव गृहस्थो विमुक्तवास्यादिनिर्व्यापारः सुखी भवतीति तदर्थः । तथाच शक्तिविपर्ययादित्यस्य पराभ्युपगतबुद्धिकर्तृत्वनिरासे तात्पर्ये, न तु बुद्धेः कर्तृत्वेन करणशक्तिपरित्याग इति न तद्विरोध इति भावः ॥ लप्तम्यर्थन्निरूपयति सप्तम्या अपीति * ॥ ननु तावता सुत्रादा• धारवाच्यत्वं लभ्यते, नाश्रयस्येत्यत आह- *तत्वश्चेति ॥ आधारत्वं चेत्यर्थः ॥ *आश्रयत्वमिति ॥ आश्रयत्वविशिष्टत्वमित्यर्थः । विशिष्टे सूत्रेण शक्तिबोधेनऽप्याश्रयांश एव सा, न तु विशेषणीभू ताश्रयत्वेऽपि । तत्प्रकारकशाब्दबोधे आश्रयशक्तिज्ञानस्य हेतुताकहपनयैव तद्भानोपपत्तेरित्याशयेनाह *तत्राश्रयांशः शक्य इति* ॥ यद्वा, ननु तावता परम्परया क्रियाश्रयस्य सप्तम्यर्थत्वं लब्धं, FISSश्रयमात्रस्येत आह *आश्रयांश इति* ॥ पूर्वोक्तरीत्या क्रियाया घा तोरेव लाभादनन्यलभ्याश्रय एव शक्य इत्यर्थः । तस्वम् आश्रयस्वमात्रेणेति शक्यतावच्छेदकस्य कर्मादिसाधारण्यात् करण तृतीयायाश्च व्यापारोऽपीत्यपिना आश्रयार्थत्वप्रतिपादनादिति भावः ॥ (१) व्याधारसंज्ञेति । आधारस्य संज्ञ', आधारसंज्ञेति षष्ठि तत्पुरुषः, नतु आधाररूपासंज्ञेति कर्मधारयः । आधारसंज्ञाऽप्रसिद्धः । एवं च अधारस्य संज्ञा नाम आधारोद्देश्यकाधिकारणसंज्ञेत्यर्थः
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy