________________
सुवर्थनिर्णयः ।
मादाय" इति श्रुत्यन्तरे करणतया क्लृप्तस्य कर्तृतां मकल्प्य शक्तिविपर्ययापत्तिर्निष्यमाणा कल्प्येतेत्यभिप्रायात् !
66
१९५
वस्तुतस्तु अभ्युच्चयमात्रमेतदिति,
यथा च तक्षोभयथा, " ( ब० सू० २ । ३ । ४० ) इत्यधिकरणे भाष्य एव स्पष्टमित्यादि प्रपञ्चितं भूषणे ॥
ज्ञानं ग्रहणशक्ति विज्ञानेन - विज्ञानशब्दवाच्येन मनसा तजन्य बुद्धवात्मक प्रवृत्येति यावत् । आदाय गृहीत्वा हृदयं स्वापे गच्छतीति श्रुत्यर्थः ।
*करणतयेति * । विज्ञानेनेत्यत्र करणतया क्लृप्तस्येत्यर्थः । निष्प्रमाणेत्यादेः कर्त्तरि करणशक्तिस्वीकारेऽपि द्वयोः शक्तयोरेकदा वि वक्षायामसम्भवेन “विज्ञानं यज्ञं तनुते" इत्यादौ कर्तृत्वविवक्षायां करणे शक्तिविवक्षाप्रयुक्तविज्ञानेनेति तृतीयान्त निर्देशाऽऽपादानाऽसम्मवेन तद्विपर्ययसङ्गाभावादित्याशयादित्यर्थः ।
नन्विदमयुक्तम् । अपादानप्रतिपादकग्रन्थस्यैवापत्तावप्रामाण्यप्रतिपादकत्वाऽसम्भवात् | आपत्तेः प्राक्तन सूत्रादप्रक्रान्तत्वाश्चेत्यत आह-वस्तुतस्त्विति *अभ्युश्च्चयमात्रमेतदिति । एतत् = शक्तिहान्या पतिरूपं दूषणम् | मात्रपदेन तात्पर्यविषयत्वस्य व्यवच्छेदः । अभ्युव्ययत्वं च तात्पर्यज्ञानविषयाऽर्थसन्निहितत्वम् । उपेक्षाविषयत्वं वा तश्च बुद्धेः करणशक्तिविपर्ययेऽस्ति । दृष्टान्तप्रतिपादकसूत्राद् बुद्धेः कर्मत्वनिरासस्यैव मुख्यत्वावगतेरिति भावः ।
भूषणे तु तदेवैतेषामित्याद्यभिप्रायादित्यन्तः पाठो नास्त्येव । "नन्वेवं कर्त्तत्यादि, , - न युज्येतेति चेत् सत्यम् । अन्वाचयमात्रमेतद्” इति पाठः । अन्वाचयेति विज्ञानशब्दार्थस्य जीवत्वे शक्तिविपर्ययापत्तिः सम्भाव्यते, न तु निर्भरस्तत्रेत्यर्थः । उपाधिवशेन परमात्मन्येव तत्सम्भवादिति भावः । तदेव विशदयति-* यथा चेति सुत्रे, चशब्दस्त्वर्थे, पराऽभिमतबुद्धिकतृत्वनिरासाऽर्थः । न हि परमात्मनोSन्यो जीवोनाम कर्त्ता भोक्ता वा सम्भवति । नित्यशुद्धमुक्तात्मनः कर्तृत्वाऽऽद्यसम्भवादनिर्मोक्षप्रसङ्गाश्च ।