________________
सुबर्थनिर्णयः ।
१९३
स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यतः ॥ इति । त्रिवक्ष्यत इसनेन सकृदनेकेषां तदभावात् द्वितीयासप्तम्या
निश्चिताऽधिकरणत्वाऽपि स्थाली तनुतरकपालत्वा द्वैवक्षिक करण• स्वषतीत्यर्थः । *अवकाशमिति । तण्डुलं स्थाल्यां पचतीत्यादौ करणत्वाऽविवक्षायां संज्ञाप्रयुक्त द्वितीयादेरवकाशमित्यर्थः तथाच, काष्ठैः पचतीत्यादौ प्रकृत्यर्थकाष्ठादेरभेदेनाश्रयरूपतृतीयाऽर्थेऽन्वयः । तस्य च व्युत्पत्तिवैचित्र्येण समानप्रत्ययोपात्तत्वप्रत्यासत्या व्यापाररूपतदर्थान्तर आधेयतासम्बन्धेन विक्लित्त्यनुकूलव्यापारे । एवञ्च काष्ठाऽभिन्नाश्रयको यः फलोपहितव्यापारस्तदूविशिष्ठो विक्लिस्यनुकूल एकाश्रयको बर्त्तमानो व्यापार इति बोधः । वैशिष्टयं व जभ्यजनकभावसम्बन्धेन बोध्यम् । अत्र च " यत्सन्निहितेषु सर्वेषु कारकेषु कर्त्ता प्रवर्त्तयिता भवति" इति सकलकारकव्यापारस्य कर्मधीनत्वप्रतिपादकं, “कारके" इति सूत्रस्थं भाष्यं प्रमाणम् ॥
अपरे तु - 'क्रियायाः परिनिष्पत्तिर्यव्यापारादनन्तरम्' इति वाक्यस्थाऽनन्तरपदस्वारस्यात् तृतीयार्थव्यापारस्य जन्यतासम्बन्धेन काष्ठायकव्यापारविशिष्टफलानुकूलो व्यापार इति बोधमाहुः । तृतीया र्थकरणत्वस्य व्यापार एवाऽन्वयः, शब्दशक्तिस्वभावान्न फ लांशे । अत एव मत्वर्थलक्षणया सोमादिपदस्य नामधेयत्वं सिद्धान्तितम् । अन्यथा व्यापारं प्रति करणत्वेनाऽम्बिते फलांशे करणत्वेनाऽन्वयोपपत्तो लक्षणाया अप्रसङ्ग एव । अत एव, सोमेन यजेतेत्यत्र मत्वर्थलक्षणेति मीमांसका इत्यन्ये ।
वस्तुतस्त्वश्रियोऽवधिरुद्देश्य इति मूलस्वारस्यात् करणतृतीयाया अध्याश्रयमात्रमर्थः । प्रकृत्यर्थान्वितस्य स्वनिष्ठव्यापारजन्यस्व संबन्धेन धात्वर्थव्यापारेऽन्वय इत्येव ज्यायः ।
नैयायिकास्त्वसाधारणं कारणं करणम् । कारणे असाधारण्यं च व्यापारवत्वमेव । न तु फलाऽयोगव्यवच्छिन्नत्वम् । तस्य या कारणघटिततया गौरवेण तद्धर्मावच्छिन्ने शक्तयसिद्धेः । स एव च प्रकर्षस्साधकतममिति तमपा बोध्यते । व्यापारस्य तज्जन्य. स्वविशिष्टतजन्यजनकत्वरूपतया व्यवधानांशस्यापि जनकस्व-घटः
२५