________________
१९२ दर्पणसहिते याकरणभूषणसारे हि. "साधकतमं करणम् ," । (पा०म० १।४। ४९) तमबर्थः प्रकर्षः । सचाव्यवधानेन फलजनकव्यापारवत्ता । ताह शव्यापारवत्कारणच करणम् । उक्तश्च वाक्यपदीये
क्रियायाः परिनिष्पत्तिर्यव्यापारादनन्तरम् । ....
विवक्ष्यते यदा यत्र करणं त्तत्तदा स्मृतम् ।। - वस्तुतस्तदनिर्देश्यं न हि वस्तु व्यवस्थितम् ।
साधकतममिति सुत्रस्य कारकाधिकारीयत्वात् साधकशब्दादेव प्रकर्षलाभेऽपि गौणाधाराधिकरणसंशाफलकस्य, कारकप्रकरणे शब्दसामर्थ्यगम्यः प्रकर्षों नाश्रीयत इत्यर्थस्य बोधनाय तमबुपादानमिति सूचयन्नाह तमबर्थः प्रकर्ष इति*। प्रकर्षश्च कारकान्तरा. पेक्षो न तु करणान्तरापेक्षः । कारकसामान्यवाचिसाधकशब्दादु. त्पनेन तमपा तदवधिकप्रकर्षस्यैव द्योतनात् । तेनाश्वेन दीपिकया बजतीति प्रयोगोपपत्तिः । अन्यथा करणान्तराऽपेक्षकप्रकर्षस्य करणान्तरे अभावेन तदनुपपत्तेः । *तादृशेति । फलोत्पत्त्यव्यवहितपूर्ववर्तीत्यर्थः। ... परे तु-फलायोगव्यवच्छिन्नकारणत्वं करणत्वम् । स्वव्याप्येत. रयावस्कारणसमवधाने सति यदव्ययहितोत्तरक्षणे फलनिष्पत्ति. स्तस्वमिति यावत् । स एव तृतीयार्थः । सत्यन्तनिवेशाच्चक्षुषो. ऽन्धःकारे फलाऽयोगेऽपि न तत्राऽप्रसङ्गः । प्रयोजकेतिप्रसङ्गनिरासायाऽव्यवहितति वदन्ति (१)।
तत्र हरिसम्मतिमप्याह *उक्तश्चेति । अत्र क्रियापदं फलपरम् । 'बाणेन हत' इत्यत्र बाणव्यापाराव्यवहितोत्तरक्षणे प्राणवियो. मरूपफलाऽवश्यम्भावालक्षणसमन्वयः । विवक्ष्यते इत्यनेन विवव विभक्तौ प्रयोजिका, न वास्तवकरणत्वादिसत्तेत्युक्तम् । अत एव दात्रेऽनारेण बलस्य तत्वविवक्षायां, बलंन लुनातीति प्रयोगः । * वस्तुत इति * ! यत इदमेव वस्तु करणमिति न नियमोऽत पव - (१) अत्र अव्यवधानांशः करणे विशेषणं । पूर्ववतु तदीयव्यापारे इति भेदः।