SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ सुबर्थनिर्णयः। १९१ अयश्च विविधः-शुद्धः, प्रयोजको हेतुः, कर्मकर्ता च । 'मया हरिः सेव्यते' 'कार्यते हरिणा' । 'गमयति कृष्ण गोकुल. म्' (१) । मदभिन्नाश्रयको हरिकर्मकसेवनाऽनुकूलो व्यापारः । हर्यभिन्नाश्रयक उत्पादनानुकूलो व्यापारः गोकुलकर्मकगम. नाऽनुकूलकृष्णाश्रयकतादृशव्यापाराऽनुकूलो व्यापारा इति शब्दबोधाः । करणतृतीयायास्त्वाश्रयव्यापारौ वाच्यौ । तथा कर्तृविभागमाह *अयश्चेति । अनुपदं तृतीयार्थत्वेन निरुक्तः। कर्तेत्यर्थः। *शुद्ध इति* । हेतुत्वकर्मकर्तृत्वानाधिकरणमित्यर्थः। प्रेरणार्थकणिप्रकृतिधातूपात्तव्यापाराश्रय इति यावत्(२)। हेतुरि. ति*। णिजर्थप्रेरणाश्रय इत्यर्थः। कर्मकर्तति* । धातूरात्तव्यापा. राश्रयत्वे सति णिजर्थव्यापारणाऽऽप्यमानत्वेन विवक्षित इत्य. र्थः । क्रमेणोदाहरणन्याह *मया हरिः सेव्यत इत्यादिना* । अत्र व्यापारविशेष्यकबोधोत्कीर्तनं तु कैयटाऽनुसारेण । तत्त्वं तु प्रागेवाऽवोचाम । *आश्रयव्यापाराविति* ॥ ___ ननु व्यापारस्य धातुत्वेनैव लाभात् तत्र शक्तिकल्पनमपार्थमित्या. शयैकस्य कर्तृनिष्ठव्यापारस्य धातोर्लाभेऽप्यनुभूयमानकरणनिष्ठ. व्यापारस्य पदार्थत्वमन्तरेण शाब्दविषयताऽनुपपत्त्या शक्तिराव. श्यकी। आख्यतानिवृत्तिभदाया एव क्रियाया अवगमा व्यापार यस्य धात्वर्थत्वासम्भवाच्चेत्यभिप्रेत्य स्वोक्तार्थस्य सप्रमाणतां द. शयितुं करणसंज्ञाप्रतिपादकं सुत्रमुपन्यस्यति। *तथाहीत्यादिना । (१) गमयतीत्यादि कर्मकतुरुदाहरणम् । कमकर्तृपदे कर्म चासो कर्तेति कर्मधारयः । एवञ्च कृष्णस्य 'गतिबुद्धि" इति सूत्रेण कर्मसं. शाविधानात् कर्मकर्तृत्वम् । नच कर्मसंज्ञया कतृसंशाबाधेन कथं कर्मकर्तृत्वमितिचेत्प्रकृतधातूपात्तव्यापाराश्रयत्वरूपकर्तृत्वस्य सत्वा. त् । अत एव गोकुलमित्यत्र द्वितीयोपपत्तिः संगच्छते । (२) कश्चित्तु कर्मत्वप्रयोजकत्वाविवक्षासमानकांलिकविवक्षा. विषयकर्तृत्वं शुद्ध कर्तृत्वमित्याह ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy