________________
सुवर्थनिर्णयः।
१८९ तस्य लक्षणा । एवं चैत्रेण ज्ञायते इत्यादावाश्रयत्वरूपे कर्तृत्वे आधेयत्वरूपे कर्तृमत्वे वा, नश्यते घटेनेत्यादौ प्रतियोगित्वात्मक कत्तृत्वेऽनुयोगित्वरूपकर्तृमत्त्वे वा लक्षणा। चैत्रः पचतीत्यादावु. क्तस्थले कर्तृत्वमेव मुख्यं गौणं वा क्रियाविशेष्यतयाऽऽख्यातेन बो. ध्यते । अचेतने स्वरसतः कर्तृव्यवहाराभावेन तत्र कर्तृपदमपि भाक्तमेव। __ नच यत्नवत एव मुख्यकर्तृत्वे तदादायैव "कर्तृकरणयोः" (पा० सू०२३।६।६५)इत्यादेश्चारितार्थ्ये गौणकर्तृत्वे तृतीयाद्यनुपपत्तिरिति वाच्यम् । तत्सूत्रस्थकर्तृपदस्य परिभाषिककतपरत्वात्। तत्सूत्रप्रणय. नस्यैव तत्परत्वे मानत्वात्। सूत्रे स्वातन्त्र्यं च समभिव्याहृतकारका. न्तराऽनधीनत्वे सति कारकत्वम् । पुरुषव्यापाराऽधीनक्रियाऽनुकूल. व्यापारवतामेव काष्ठादीनामन्यानधीनत्वविवक्षया, काष्ठं पचतीत्या. दो कर्तृत्वम् । अनधीनत्वान्तविशेषणं च, चैत्रः काष्ठैः स्थाल्यां पचतीत्यत्र चैत्रः काष्ठानि स्थाली पचन्तीति प्रयोगवारणाय । चैत्रः पचति, स्थाली पचतीत्यादौ यत्र कारकास्तराप्रसिद्धिस्तत्रानधी. नान्तविशेषणं न प्रतीयत एव । तन्निर्वाहश्च स्वतन्त्रशक्तिकल्प. नात् । विशिष्टशक्तर्विशेषणविषयकविशेष्यबोधाजनकत्वात् । वि. शिष्टशक्त्या निर्वाहात । चैत्रेण पाचयतीत्यादौ हेतुकर्तस. मभिव्याहारे प्रयोज्यस्य हेतुकर्बधीनत्वेऽपि ण्यन्तप्रतिपाद्यपाचना. दिक्रियायामेव प्रयोजकस्य कारकतया प्रयोज्यस्य पच्याद्यर्थक्रिया. कारकाऽनधीनताया अवैकल्येन न तद्वाचकपदोत्तरं तृतीयानुपपत्तिः । स्वतन्त्रकर्तप्रयोजकव्यापारस्य तण्डुलक्रयणादिवत् पा. कादावन्यथासिद्धरवादकारणत्वेन तस्य पाकादिप्रयोजकव्यापारव. स्वेऽपि तक्रियाकारकत्वाभावाच्च । अत एव, चैत्रेण मैत्रः पाच यतीत्यत्र, मैऋ पचतीति न।
नन्वस्तूपदर्शितरीत्या चैत्रादेः स्वतन्त्रकर्तृतानिर्वाहस्तथापि तद्वाचकपदोत्तरं तृतीयाऽनुपपत्तिः कर्तृत्वनिर्वाहकव्यापारस्य णिजर्थत्वेन स्वतन्त्रनिष्ठस्य तस्य णिचाऽभिधानादिति चेन्न ।
कर्तृत्वनिर्वाहकत्वसम्बन्धेन पाकाद्यन्वितहेतुकर्तृव्यापारस्य णि-- जर्थतापक्षेऽदोषात् । कर्तृत्वरूपफलाऽवच्छिन्नव्यापारस्य णिजर्थता. मतेऽपि तदुपरक्ताश्रयस्थान्ततो भानानिर्वाणानभिधानस्या