SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १८८ दर्पणसहिते वैयाकरणभूषणसारे अत्र वदन्ति-दण्डादिनिष्ठव्यापारस्य धात्वर्थव्यवहारस्तस्मिन् सूपपादः। अतएव हरिणा प्रागन्यतः शक्तिलाभान्न्यग्भावाऽऽपादनादपि । तदधीनप्रवृत्तत्वात् प्रवृत्तानां निवर्तनात् ॥ अदृष्टत्वात्प्रतिनिधेय॑तिरेके च दर्शनात् । (१)आरादप्युपकारित्वे स्वातन्त्र्यं कर्तुरिष्यते ॥ इत्यनेन करणादिव्यापारात् पूर्व कारणादिसम्पादकशक्तिमत्त्वेन कारणादीनामात्माधीनत्वसम्पादनेन च तदायत्तव्यापारत्वेनाऽति. प्रवृत्तानां निवर्तनेन कर्नुः फलप्राप्तौ स्वत एव निवृत्या प्रतिनिध्यभावेन कारकान्तराभावेऽप्यस्त्यादौ कर्तुदर्शनेन च दूरादप्यु. पकारित्वेऽपि स्वातन्त्र्यमित्यर्थकेन कारकचक्रप्रयोक्तृत्वमेव स्वात. यमभिहितम् । __ वस्तुत एषां धर्माणामभावेऽपि शब्दे यस्यैते प्रतिपाद्यन्ते स कतैति तदाशयः। पाचयति चैत्रेण मैत्र इत्यादी प्रयोज्यस्य प्रयोजकव्यापाराधीनत्वेऽपि णिचप्रकृत्यर्थसाधनान्तरविषये उक्तस्वात. न्यस्य सत्त्वात् कर्तृत्वोपपत्तिः। धातुवाच्यक्रियाकृतस्वातन्त्र्यस्यैव विवक्षणात् कर्तृपरतन्त्रकरणादेन स्वव्यापारमादाय कर्तृत्वं, प्रयो. ज्यस्य स्वार्थसिद्धार्थमपि प्रवृत्तानां करणादीनां कधीनत्ववत प्रयोज्यस्य प्रयोजकाऽनधीनत्वाञ्च । न हि फलोद्देशाधीना करणादीनां व्यापारवत्ता । प्रयोज्यस्य तु तादृशप्रवृत्तौ "सर्व इमे स्वभू. स्यर्थे प्रवर्तन्त" इति, हेतुमति चेतिसूत्रस्थं भाष्यमनुभवश्व सार्वजनीनः प्रामाणमित्याहुः कृत्याश्रयत्वं दण्डादावध्याप्तमित्युक्त्या नैयायिकोक्तकर्तृत्वस्यो. पेक्षणीयत्वमावेदितम् । तेषां त्वयमाशयः । कनृत्वं मुख्यं पूर्वोक्ता मेव, आश्रयप्रतियोगित्वादिरूपं तु गौणम, उभयमपि कर्तृतृतीयया प्रतिपद्यते । तथाहि । चैत्रेण पच्यते इत्यादौ कृतिमदर्भदेन तजन्यत्वं वा क्रियाविशेषणतया तृतीययाऽभिधीयते ॥ अचेतनकाष्ठादेरपि कर्तृत्वविवक्षायां तु काष्ठं पचतीतिवत् 'काष्ठन पच्यते तण्डुल' इत्यत्रापि प्रयोगाद् व्यापाररूपे कर्तृत्वे तजन्यत्वरूपे सकर्मत्वे वा (१) आरादुपकारित्व चान्यनिर्वय॑फलानिर्वत्तकत्वम् । -
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy