SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ . सुबर्थनिर्णयः। १८७ तं कथं सङ्गच्छताम् । उच्यते । जीवस्यैव ज्ञेयत्वे प्राप्तिकर्मत्व. मपि वाच्यम् । कर्तृत्वश्च तस्य आख्यातेनोक्तम् । नचैकस्यैकदा संज्ञाद्वयं युक्तम् । कर्तृसंज्ञया कर्मसंज्ञाया बाधात् । तथाचैतमिति द्वितीया न स्यात् । कर्मकर्तृतायाश्च यगाद्यापत्तिरिति(१) शब्दविरोधद्वारा भवति स भेदहेतुः । एवञ्च व्यपारांशस्य धातुलभ्यत्वादाश्रयमानं तृतीयार्थः । कारकचक्रप्रयोक्तृत्वं, कृत्याश्रयत्वं वा, दण्डः करोतीत्यत्रा. व्याप्तम् । यावत् । एतमित इत्यादेरितः शरीरात प्रेत्य निःसृत्य एतच्छरीरं परित्यज्येति यावत् । एतं स्वप्रकाशत्वादिगुणविशिष्टं पूर्वोक्तमा. स्मानम्, अभिसम्भवितास्मि प्राप्तास्मीत्यर्थः। *कथं सङ्गच्छता. सिति । भवन्मने वैवक्षिकयोः कर्तृत्वकर्मत्वयोरेकस्मिन्नपि सम्भ. घादिति भावः। संज्ञानिबन्धनविरोधं समर्थयन् कर्तृत्वकर्मत्वयोर्वास्तवाविरोधं दर्शयति *उच्यते इत्यादिना**जीवस्यैव शेयत्वे इति । स क्रतुं कुर्वीतेत्यनेन जीवस्यैवोपास्यत्वबोधने इत्यर्थः। *प्राप्तिकर्मत्वमि. नि*॥ अन्योपासनाया अपरप्राप्त्यफलकत्वादिति भावः । *आख्या. तेनेति । अभिसम्भविताऽस्मीत्येतद्घटकेनेत्यर्थः । *बाधादि. ति* । संशयोराकडारीयतया समावेशाऽसम्भवेन परया कर्तृसं. शया बाधादित्यर्थः। *यगाद्याऽपत्तिरिति* । अभ्युश्चयवादः। प्राप्ये कर्मवद्भावाऽप्रसक्तः ॥ शब्दविरोधद्वारा-एकदा संज्ञाद्वयप्रयुक्तका. Uऽनुत्पत्तिद्वारा, स-संज्ञाद्वयविरोधस्तत्र कर्तृकर्मत्वव्यवहारहेतु. रित्यर्थः । न तु कर्तृत्वकर्मत्वयोः पारमार्थिकं भेदमादायेति भावः । ननु विशिष्टाश्रयस्य तावत् तृतीयाऽर्थत्वमायातमत आह एवश्चे. ति॥ धातूपात्तव्यापाराश्रयस्य कर्तृत्वे चेत्यर्थ॥* आश्रयमात्रमिति*। अनन्यलभ्यत्वादिति भावः। मतान्तरं दूषयति कृत्याश्रयत्वमित्यादिना ।* अव्याप्तमिति* ॥ अचेतने तस्मिस्तद्बाधादिति भावः॥ (१) अत्रादिपदग्राह्यमात्मनेपदम् ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy