SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १८६ दर्पणसहिते वैयाकरणभूषणसारे (१)धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते ॥ इति वाक्यपदीयात् । अत एव यदा यदीयो व्यापारी धातुनाऽभिधीयते तदा स कर्तेति, स्थाली पचति, अमिः पचति, एधांसि पचन्ति, तण्डुलः पच्यते स्वयमेवेत्यादि सङ्गच्छते । नन्वेवं "कर्मकर्तव्यपदेशाच्च" (ब० मू० १ । २ । ४) इति सूत्रे, "मनोमयः प्राणशरीरः" इनि वाक्यस्थमनोमयस्य जीवत्वे वाक्यशेषे तस्य, “एतमितः प्रेत्याभिसम्भवितास्मि" इति प्राप्तिकर्मत्वकर्तृत्वव्यपदेशो विरुद्ध इति भगवता व्यासेन निर्णी. दावुत्तरसंयोगात्मके फले तादृशधात्वर्थत्वाभावान्न तदाश्रयेऽतिप्र. सङ्गः । पक्कस्तण्डुलो देवदत्तेनेत्यादौ फलस्य विशेष्यत्वेन देवदत्तेऽ व्याप्तिपरिहाराय कर्तृप्रत्ययसमभिव्याहार इति । सामग्रीसाध्यायां क्रियायां सर्वेषां स्वस्वव्यापारे स्वातन्त्र्येऽप्युक्तस्वातन्त्र्यस्य युगपत्स. वैष्वभावान सूत्राऽनर्थक्यमिति । कत्तुंः कर्मप्रत्ययसमभिव्याहृतकहृव्यावृत्तधार्वथव्यापाराश्रयत्वस्यैव सम्यक्त्वे गुरुविशेणस्याऽन. तिप्रयोजनकत्वाश्ोपेक्ष्यम् । कर्मकर्तरि तु नव्यमते फले व्यापार• त्वारोपान्नाऽव्याप्तिः। व्यापारत्वेन कृतेराप सङ्ग्रहान्न तदनाश्रये. ऽचेतने स्वरसतः कर्तृव्यवहारः । तदतिरिक्तव्यापारस्य धातुना वि. पक्षायां तु क्वचित् कर्तृत्वव्यवहारोऽपि । वक्ष्यति च-यदा यदीयो व्यापार इत्यादि । एवमेव, ततो भूतं न तु मया कृतमित्याधुपपाद्य. मिति भावः। तत्र हरिवाश्यं प्रमाण यति * धातुनेति* । उक्तक्रिया इति विशेषणादस्मदुक्तमेव स्वातन्त्र्यं हरिसम्मतमिति सूचयति *अत एवेति ॥ उक्तस्वातन्त्र्यस्य कर्तृत्वादेवेत्यर्थः॥ ___ *सङ्गच्छते इति*कृत्याश्रयत्वादेस्तत्त्वे तु तदसङ्गतिरिति भावः। उक्तविवक्षायाः प्रयोगनियामकत्वं द्रढयितुं पृच्छति *नन्वेवमिति । एवं विवक्षाया एव प्रयोगनियामकत्वे मनामयस्य मनोमयशब्दनः तिपाद्यस्येत्यर्थः । जीवत्वे संकल्पकर्तृरूपत्वे ब्रह्मभिन्नत्वे इति (१) धातुनोक्तक्रिय कारके कर्तृता नित्यमिष्यते, इति हरिपाद्य क्षरयोजना।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy