SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ - सुयर्थनिर्णयः। १८५ स्वयमूहः॥ ये त्वनुकूलव्यापार एवणिजर्थस्तदन्वयिनीगमनादिक्रियैव धा. त्वर्थतावच्छेदकं फलंतच्छालितयाऽजादीनां प्राप्तमेव कर्मत्वं "गति. बुद्धि" (पा.सू. १४.५२ )इति सूत्रेण इति वदन्ति । तेषां मते पाचय. त्योदनं सहायेनेत्यादौ द्वितीयातृतीययोर्नियामका लाभः । अधिकम. न्यत्राऽनुसन्धयामित्याहुः॥ वैकुण्ठमधितिष्ठतीत्यादावपि द्वितीयाया आधार एवाऽर्थः । अध्याद्युपसृष्टशीङादियोगे “अधिशी" (पा० सू० १।४।४५) इत्यादिसूत्रैराधारस्य कर्मसंज्ञाविधानात् । यदपि कृअर्थव्यापारा. न्तर्भावेणाऽध्यायुपसृष्टशीङादीनां लक्षणामुपगम्य कर्तुरीप्सितत. ममित्यनेनैव कर्मसंज्ञा सुसाधा, तथापि मुख्याऽर्थकतद्योगेऽपि क. मप्रत्ययसाधुत्वबोधनार्थमधिशीस्थासामित्यादिसूत्राणामप्यावश्य. कतति । कर्मप्रवचनीययोगविहितविभक्तस्तु यथायथं लक्ष्यलक्षणभावादिः सम्बन्धो धोत्य इति वक्ष्यते॥ उपपदविभक्तीनां तु षष्ठ्यपवादकत्वात् सम्बन्ध एवार्थः । "कालाऽध्वनोरत्यन्तसंयोगे" (पा० स०२।३।५) इति विहित. द्वितीयाया व्यापकत्वमर्थः । मासमधीत इत्यादी मासव्यापकाऽध्य. .यनमिति बोधात् । द्वितीयादीनामाश्रयोऽर्थ इत्यत्र विभक्तिपदस्य कारकविभक्तिपरत्वेन तदविरोधादित्यन्यत्र विस्तरः। क्रमप्राप्तं तृतीयार्थ निरूपयति-*कर्तृतीयाया इति । करणत. तीयाया व्यापारार्थत्वस्यापि वक्ष्यमाणत्वादुक्तं-*कर्षिति ॥ * आश्रय* इति ॥ आश्रयमात्रमित्यर्थः । आश्रयार्थकत्वे मानमुपन्य. स्यति *तथाहीत्यादिना*ननु स्वातन्त्र्यमितरव्यापारानधीनव्यापा. रवत्त्वम् । तच्च काष्ठं पचतीत्यादौ काष्ठादावप्रसक्तं, तव्यापार. स्य चेतनव्यापाराधीनत्वादत आह-*स्वातन्यश्चेति* ॥ व्यापा. राश्रयत्वस्य करणे धात्वर्थाश्रयत्वस्य कर्मण्यतिप्रसक्तत्वात् तव्या. वृत्तये क्रमेणोभयम् ॥ अन्ये तु-कर्तृप्रत्ययसमभिन्याहारे व्यापारतावच्छेदकसम्बन्धेन धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतानाश्रयतद्धात्वाश्रयत्वं स्वा. तन्यम् । तदेव च कर्तृत्वम् । कालिकसम्बन्धेन व्यापाराश्रयेऽति. प्रसङ्गवारणाय व्यापारतावच्छेदकसम्बन्धेनेति । ग्रामं गच्छतीत्या. २४
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy