SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ दर्पणसहिते वैयाकरणभूषणसारे योजकव्यापार सत्त्वेन प्रधान कार्यस्य च सर्वतो बलवस्वस्याऽऽक. डार(पा० सू०१।४।१) सूत्रे कैयटेनोक्तत्वाद्धेतुमति चेतिसूत्रस्थभाष्यप्रामाण्याच्च तदनुरोधिकर्मत्वस्थाऽन्तरङ्गादपि कर्तृत्वादू. बलवत्त्वाऽनियमत्वमेव साम्प्रतम् । ___ परे तु-हेतुमति चेत्यनुशासनादन्यनिष्ठकत्र्तृत्वनिर्वाहकव्यापाररूपा स्वतन्त्रप्रेरणा णिजर्थः । कर्तृत्वं च क्वचित् प्रयत्नः, क्वचिदा. श्रयत्वादि । यादृशधातूत्तराख्याते यादृशं कर्तृत्वमभिधीयते तादृश. धातूत्तरणिच्प्रत्ययेन ताशकर्तृत्वनिर्वाहको व्यापारोऽभिधीयते । निर्वाहकत्वं च स्वरूपसम्बन्धविशेषो, नाऽतो नाशयतीत्यादाव. न्वयाऽनुपपत्तिः। __एवञ्च पाकादिकर्तुस्तकर्मत्वविरहेऽपि ण्यन्तधातुप्रतिपाद्यताs. पच्छेदककर्तृत्वस्य फलत्वेन तदाश्रयत्वात पाकादिकर्तुः कर्मत्वं ता. दृशकर्तृत्वविशेषणतया सहायादिरूपस्वतन्त्रकर्तृवृत्तित्वाविवक्षार्थी पाचयत्योदनं सहायमित्यपि प्रयोगः साधुरेव । अत एव, "अजिग्रहत्त जनको धनुस्तद्" इति भट्टिप्रयोगः स्वरसतः सङ्गच्छते । प्रदेर्शानलाक्षणिकतया तदुपपादनं त्वगतिकगतिः । यदा तु णिचप्रकृत्यर्थः व्यापारे स्वतन्त्रकर्तृवृत्तित्वस्य विशेषणतया विवक्षा तदा सहायेने त्येव । गतिबुद्धिति सूत्रं, गत्याद्यर्थकधातुयोगे तादृकर्तृत्वविशेषण. तया स्वतन्त्रकर्तृवृत्तित्वविवक्षा नियता नाऽन्यत्रेत्यर्थबोधनद्वारा तत्र कर्तृप्रत्ययाऽसाधुत्वज्ञापकम् । तेन पावयत्योदनं सहायेनेतिवदज. या ग्रामं गममतीति न । ____एवञ्चाऽजां ग्रामं गमयतीत्यत्र, ग्रामनिष्ठसंयोगाऽनुकूलव्यापारस्य यदजानिष्ठकर्तृत्वनिर्वाहकत्वसम्बन्धेन तद्विशिष्टो यो व्यापारस्तदनुकूलकृतिमानिति बोधः । पाचयत्योदनं सहायेनेत्यत्र सहा. यकर्तृको यो विल्कित्यनुकूला व्यापारो, निर्वाहकत्वसम्बन्धेन तत् कर्तृत्वसम्बन्धेन तत्कर्तृत्वविशिष्टव्यापारानुकूलकृतिमानिति बोधः । चैत्रेण ग्रामं गम्यतेऽजेत्यत्र कर्माख्याते तु तादृशव्यापारनिर्वाह्य. कर्तृकव्यापारनिर्वाह्यकर्तृत्वनिरूपकं यद् ग्रामवृत्तिसंयोगानुकूलं गमनं तत्कय॑जति बोधः। सहायेन पाच्यते तण्डुलश्चैत्रणेत्यत्र तु चैत्रकर्तृकप्रेरणानिर्वाह्यकर्तृत्वनिरूपको यः सहायरूपस्वतन्त्रकर्तृवृत्ति. व्यापारस्तजन्यविल्कित्याश्रयस्तण्डुल इति बोधः । अर्थविवेकः
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy