SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ सुबर्थनिर्णयः। १८३ न्तरैरनाख्यातम् । क्रूरमभिक्रुद्धयतीत्यन्यपूर्वकम् ॥ ____ कर्तृतृतीयाया आश्रयोऽर्थः । तथाहि । “स्वतन्त्रः क. "। (पा० सू० १ । ४ । ५४ ) स्वातन्त्र्यञ्च धात्वर्थव्या. पाराश्रयत्वम् (१)। . लगोनिष्ठव्यापाराऽनुकूल एककर्तृको वर्तमानोव्यापार इति । तत्र विभागाश्रयत्वात् पयसः कर्मता । तदनुकूलव्यापाराश्रयत्वातु गोः, म तु विभागाश्रयत्वेन । पयोनिष्ठविभागीयसम्बन्धस्यैव फलताव. च्छेदकत्वादेवमन्यत्राप्यूह्यम् ॥ *अन्यपूर्वकर्मिति* । अन्यसंशाबाधनपूर्व शास्त्रबोधितमित्यर्थः। क्रूरमाभिध्यतीत्यत्र, क्रुधदुहेर्योतिप्रसक्तसम्प्रदानसंज्ञायाः, "क्रुध. दुहोरुपसृष्टयोः कर्म" (पा० सू०१। ४ । ३८ ) इति बोधनात् । एवं धैकुण्ठमाधिशेते इत्यादावपि बोध्यम् । 'अजां प्रामं गमयति, 'शिष्यं शास्त्रं बोधयति,' 'ब्राह्मणमन्नं भाजयति,' 'यजमान मन्त्रं पाठयति, 'घटं जनयति' नाशयति' इत्यादौ गतिबुद्धीति सूत्रेण गम्यादिप्रकृति. कणिजन्तधातुसमभिव्याहृतद्वितीयाया अप्याश्रयोऽर्थः । यद्यपि णि. जन्तधात्वर्थप्रेरणजन्यव्यापाररूपफलाश्रयत्वादजादीनामपि कर्मत्वं कर्तरीप्सिततममित्यनेनैव सिद्धं, तथापिणिजन्तेन आप्यमानस्य(२) चेद्भवति गत्याद्यर्थव्यापाराश्रयस्यैवेति नियमार्थ सूत्रम् । तेन पाचयः त्योदन देवदत्तेनेत्यादौ न । तदुक्तं-- गुणक्रियायां स्वातन्त्र्यात् प्रेषणे कर्मतां गतः।। नियमात् कर्मसंज्ञायाः धर्मेणाप्यभिधीयते । इति । वाचकतासम्बन्धेन स्वनिष्ठया तृतीययेत्यर्थः । यद्यपि कत्तसं. ज्ञायाः परत्वाद्धेतुमति चेत्यनुशासनात् स्वकारकविशिष्टक्रियाया णिजर्थसम्बन्धाऽवगतेरन्तरङ्गत्वाच्च कर्मसंज्ञायास्तया बाध एवो. चितस्तथाप्यन्यानधीनत्वलक्षणार्थप्राधान्यशाब्दप्राधान्ययोः प्र. (१) धात्वर्थव्यापाराश्रयत्वमित्यत्र 'प्रकृत' इत्यादिः । (२) आप्यमानस्य नाम प्राप्यमाणस्य अर्थात् णिजन्तनिमित्तक. मसंज्ञायोग्यस्य ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy