________________
१८२ दर्पणसहिते वैयाकरणभूषणसारे
घटं कारोतीत्याद्यम् । काष्ठं भस्म करोतीति, सुवर्ण कुण्डलं करोतीति च द्वितीयम् । घटं पश्यतीति तृतीयम् । तृणं स्पृशतीत्युदासीनम् । विषं भुङ्क्ते इति द्वेष्यम् । गां दोग्धीति संज्ञा
रूपफलाश्रयत्वाचन सामान्यलक्षणाऽव्याप्तिरावरणभङ्गफलमादाय जानात्यादिकमणि लक्षणसङ्गमनेऽधीच्छत्यादिकर्मण्यव्याप्तिवारणायोक्तरीतरेवानुसतव्यत्वादिति । निर्देशक्रमणोदाहरणान्याह-*घटमिति* ॥ *आद्यमिति* ॥ निवर्त्यमित्यर्थः। एवमग्रेऽपि ॥ ___*संज्ञान्तरैरनाख्यातमिति * ॥ अपादानत्वादितत्तद्रूपविशेषैर. विवक्षितमित्यर्थः अकथितश्चेत्यत्राऽकथितशब्दोऽविवक्षितपरो, न. त्वप्रधानपरः । तथा सति पाणिना कांस्यपाभ्यां दोग्धीत्यत्र करणा धिकरणयोः कर्मसंज्ञा प्रसज्येतेति । दुहादीनां परिगणनात् तत्संज्ञयोः करोत्यादियोगे सावकाशत्वादिति भावः । तथाच पूर्वविधिप्रसक्तिपू. चकं तदविवक्षायां सर्वथा पूर्व विधेरप्रसक्तौ च तत्प्रवृत्तिरिति बोध्यम् । यद्यदि विभागानुकूलव्यापारानुकूलप्यापारस्याऽपि(२ दुह्यर्थत्वेन. कर्तुरीप्सिततममित्यनेनैव कर्मसंज्ञा सिध्यति । कर्तृनिष्ठव्यापा. राविशेषणफलाश्रयतया गोः प्रधानकर्मतया न तत्र लाद्यनुगपत्तिः। पयोनिष्ठविभागानुकूलगोनिष्ठव्यापारानुकूलव्यापारस्य शब्दतः प्रा. धान्यादन्यथासिद्धप्रयोजनकमेतत् सुत्रमित्याभाति, तथापि वि. भागानुकूलकर्मत्वार्थमिदमावश्यकम् । एतस्मिन्नर्थेऽप्रधाने दुहादीनामित्यनुशासनाद्वादावेव लादयः।। ___ अप्रधानकर्मत्वं चोक्तकर्मभिन्नत्वम्। तञ्चोक्ताऽर्थे गवादीनामक्षतम् । धात्वर्थफलानाश्रयत्वात् । तथाचैतत्कल्पे स्थितं द्रवद्रव्यनिष्ठविभाग. नुकूलव्यापारो दुहेरर्थः । तत्र गोरपादानत्वाऽविवक्षायामनेन कर्मत्वम् । तद्विवक्षायां पञ्चमी । गोः पयस्यन्वये तु षष्ठी । एवञ्च गोकमकपयोनिष्ठविभागानुकूल एककर्तृको व्यापार इति बोधः। विभा. गावधित्वमेव गोः कर्मत्वम् । आद्यकल्पे तु पयोनिष्ठविभागाऽनुकू.
(१) गां पयो दोग्धीत्यत्र गौः पयस्त्यजति तया त्याजयतीत्यर्थ प्रतीतेरितिभावः।