SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ सुवर्थनिर्णयः। १८१ (१)क्रियाकृतविशर्षाणां सिद्धिर्यत्र न गम्यते । दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते । इति च तत्रैवोक्तम् । तस्य विकृतित्वमेव भाष्यकृत्तात्पर्यविषय इत्यस्यापि वक्तुं शक्यत. या न तनिर्देश आख्यातस्य विकृतिसमानवचनत्वे उपष्टम्भक इति॥ ____ अत्रेदमाभाति-वैयाकरणमते प्रकृते प्रकृतिविकृत्योर्द्वयोरपि क. तत्वनाख्यतेन कद्वयमेव अभिधानीयम् । एवं ततसंख्याऽपि त. ब्रैकेनाख्यातेन विरुद्धसंख्यावतोस्तयोः संख्याया अभिधातुमशक्यतया भगवता, कुण्डले भवत इति विकृतिसंख्यैवोक्ता । न तु प्रकृतिगता नाण्यातप्रतिपाद्येति मुनित्रयस्याऽऽक्षाऽस्ति । एवञ्च प्रयोगवशेन पर्यायेणाऽन्यतरसमानवचनत्वमाख्यातस्य निराबाघ. मिति ॥ *क्रियाकृतेति* ॥ क्रियाप्रयोज्याऽसाधारणधर्मप्रकारकप्रतीति. विषयताऽनाश्रयत्वम् । निर्वादावतिव्याप्तिवारणाय सत्यन्तम् । तत्रापि विषयतानाश्रयत्यस्य धर्मप्रकारकप्रतीतविषयतानाश्रयत्व. स्याऽसाधारणधर्मघटितस्य वा तस्य घट जानातीत्यादौ घटादाव. सम्भव इति प्रयोज्यान्तं धर्मविशेषणम् । तत्रैव क्रियाप्रयोज्यासा. धारणधर्मसंयोगप्रतीतिविषये प्रामादिकर्मण्यव्याप्तिनिरासाय असा धारणेति । कियाजन्यफलानाश्रये अतिप्रसक्तिनिरासाय विशेष्यम्। न च घटं जानातीत्यादौ क्रियाजन्यफलाऽभावात् सामान्यल. क्षणस्याऽव्याप्तिः । तद्वारणाय तत्राऽऽवरणभङ्गाऽभ्युपगमे तु तस्यैः बक्रियाप्रयोज्याऽसाधारणधर्मतयाऽयं घट एतेन ज्ञात एतव्यव. हारविषयत्वेन अनुमानजन्यप्रमाविषयत्वेन सत्यन्ताभावाद्विशेषलक्षणाऽव्याप्तिरिति वाच्यम् । कतभिन्नत्वे सति कर्तृकर्मोभयसाधा. रणक्रियाजन्यफलाश्रयत्वं उक्तलक्षणवाक्यतात्प-विषतयाज्ञान. (१) प्राप्यलक्षणमेतत् । दर्शनात प्रत्यक्षात । अनुमानात्, य. था पुत्रः सुखमनुभवति इत्यत्र मुखप्रसादादिना सुखानुमानं भवति तथा नेत्यर्थः।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy