________________
१८०
दर्पणसहिते वैयाकरणभूषणसारे इव भाति कन्दुकोऽयम्" इति । न च तत्राऽपि भान्तीत्यव पाठः । कथमन्यथा"अमानि तत्तेन निजायशोयुगे द्विफालबद्धाश्चिकुराशिरःस्थितम्"। - इत्यत्राऽऽरोप्यनिजायशोयुगसमानवचनममानीत्याख्यातं प्रयु. तं श्रीहर्षेणेति वाच्यम् । तत्रापि पूर्वार्द्धसमर्थितायशोयुगस्य पा. स्तवत्वेन तस्मिन् फालद्वयबद्धचिकुराणामेव राज्ञ आरोप्यत्वन क. बेरुत्प्रेक्षितत्वात् । अत एव, न तत्राऽविमृष्टविधेयांशतादोषावका श (१)इत्याहुः॥ __अत्र केचित्-"पुनरावृत्तः सुवर्णपिण्डः पुनरपरयाऽऽकृत्या यु. तः खदिराङ्गारसवणे कुण्डले भवतः" इति महाभाष्यप्रयोगादाख्यास्य विकृतिसमानवचनत्वमेव ।
गृह्णाति वाचकः संख्यां प्रकृतर्विकृतेनहि ।
इति तु विप्रत्ययमात्रविषयकम् । एवञ्च, काष्ठानि भस्म रा. शिः क्रियन्त इत्यादिप्रयोगाणामसाधुत्वमेवति ॥ ___ अपरे तु-खदिराङ्गारवणे इति विशेषणेन तत्र कुण्डलयोः प्रकृ. तित्वं गम्यते । सिद्धाया विकृतेः पाकानपेक्षणात । पुनरपरयाऽऽक. त्या युक्त इति विशेषणेन तु सुवर्णपिण्डस्य विकृतित्वम् । आकुत्यनारयोगस्य प्रकृतित्वाप्रयोजकत्वात् । युज्यते चैतत् । "मृत्तिके. स्येव सत्यम्" इतिवत् संहतिमुखेन पुनरावृत्त इति विशेषणेना. पि सुर्वणपिण्डस्य विकृतित्वं गम्यते ।
तथाहि । पूर्वोपक्रान्ताऽऽकृतिपरम्परायास्तत्पय्यर्वसायित्वेन सिषाधयिषितसुवर्णनित्यत्वस्य सिद्धेः । तस्मात् पूर्वनिर्दिष्टाऽऽक. तिविशिष्टसुवर्णस्य कुण्डलादिप्रकृतेरप्यनिर्दिष्टाऽपराकृतिविशिष्टस्य
(१) अविमृष्टविधेयांशतेति । अविमृष्टः-प्राधान्येन अनिर्दिष्टः विधेयांशः यत्र तस्य भावः तस्वम् । पदार्थानां मध्ये विधेयस्यैवो. पादेयत्वेन प्राधान्यं, तस्य च प्राधान्येन निर्देश एव उचितः। भस्योदाहरणं साहित्ये "स्वर्गग्रामटिका" इत्यादिप्रसिद्धम् । पूर्वतन्त्रे च वषट्कर्तुः प्रथमभक्ष" इत्यत्र भक्षानुवादेन क्रममात्रस्य विधानेs स्य दोषस्यापत्तौ प्रथमभक्ष इतिपदम् क्रमविशिष्टपदार्थपरमित्युक्तम् । पूर्वतन्त्रेऽस्य दोषस्य 'एकप्रसरताभङ्ग' इति पदेन व्यवहार इति बोध्यम्।