SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ सुबर्थनिर्णयः । १७९ क्रियत इति वाक्यजबोधस्येव, काष्ठं भस्म क्रियत इति वाक्यजबोधस्यापि भस्म काष्ठविकृतिरन्यविकृतिर्वेति संशयनिर्वत्र्तकत्वानुपपत्तेः । समूहालम्बनजनकत्वाविशेषेण काष्ठभस्मनोः प्रकृतिषिकतिभावस्योक्तवाक्यादलाभात् । सत्यामेवैकवाक्यतायां कर्त्तृप्रत्यये प्रयोज्य प्रयोजकभावस्य विशिष्टाऽन्वयविवक्षानियमेन लाभ इव कप्रत्ययस्थलेsपि तथा विवक्षाया नियमवशादेव कर्माऽऽत्मनेपदेन भस्मनि काष्ठोच्छेद प्रयोज्योत्पत्तिकत्वरूपकाष्ठविकृतित्वस्य लाभात् । न च विकृतिवाचकाद् द्वितीयापत्तिः । लकारेण विकृतिकर्मत्वस्यानभिधानेऽपि कर्मत्वान्तरविशेषणतापन्नक्रियायां तस्य विकृत्यर्थसंसर्गत्वाऽभ्युपगमेनैव द्वितीयापत्त्यसम्भवात् प्रातिपदिकार्थविशेयतया कर्मत्वादिविवक्षायामेव द्वितीयाद्यवसरात् ॥ न चैवं, घटः करोतीत्यापत्तिः । कर्मत्वान्तरविशेषणतानापन्नक्रियायां क्रियान्तरकर्त्तृत्वविशेष्यतापन्नाऽर्थकस्यैव कर्मतासंसर्गेण भा नाभ्युपगमात् । अत एव काष्ठं भस्मराशिः करोतीति न प्रयोगः । भस्मराशेः क्रियान्तरकर्त्तृत्व विशेष्यतानापन्नत्वात् । उपपद्यते च पश्य मृगो धावतीत्यादिः । प्रकृते च नीलो घटो भवतीत्यादावसाधारणधर्मरूपभवने नौलादेराधेयत्वरूपकर्त्तृतासम्बन्धेनाऽन्वयव दुव्युत्पत्ति वैचित्रयेण प्रकृतिकत्वविशेषणतापन्नायां कृधात्वर्थकृतौ भस्मादिरूपविकृतिकर्मणः कर्मतासम्बन्धेनान्वयोपगमेन एकवाक्यत्वोपपत्त्योक्तसंशय निवर्त्त कत्वोपपत्तेः । तथाचोत्पादकत्वेन भस्मसम्बन्धिकृतिप्रयोज्यनाशप्रतियोगीनि काष्ठानीति काष्ठं भस्मराशिः क्रियत इति वाक्यजो बोधः । सम्बन्धस्य -प्रातिपदिकार्थविशेष्यतया अविवक्षणा देव न तत्र षष्ठयपि । स्थले एवं "मृदोन घटो न" इत्यत्रापि प्रकृतिविकृतिभाव• कर्मत्वान्तरविशेषणतापन्न धात्वर्थान्वय्यर्थबोधने द्वितीद्वितीयाप्रसङ्गो, ना. यायाः साधुत्वमितिनियमोपगमे नोक्तस्थले पि, दुह्यते गोः क्षीरमित्यादौ तदनुपपत्तिः । एवमेकत्वावच्छिन्ने द्वि स्वावच्छिन्नारोपस्थलेऽप्येको द्वौ ज्ञायते इत्यादौ आरोष्यविशेष्यवाचकसमानवचनत्वमाख्यातस्य । प्रयुज्यते च कवयः । “एकोऽपि श्रय
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy