SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १७८ दर्पणसहिते वैयाकरणभूषणसारे र्थः । नाशे प्रतियोगितया काष्ठस्योत्पत्तौ भस्मन आधेयतया काष्ठप्र तियोगिकनाशानुकूलो भस्मोत्पादको वर्त्तमानो व्यापार इति बोधः । एवं, तण्डुलानोदनं पचतीत्यादावपि । नैयायिकास्तु-तण्डुलानोदनं पचतीति विकाय्र्यस्थले प्रकृतिकमत्तद्वितीयाया नाशकत्वमर्थः । विकृतिकमौत्तरद्वितायीयाश्चोत्पा• दकत्वम् । तण्डुलाद्यन्वितं नाशकत्वं च पाकेऽन्वेति । ओदनाऽन्वि तोत्पादकत्वस्य नाशकत्वविशिष्टे पाकेऽन्वयः नाशे चोत्पत्तेः प्रयो जकत्वमुद्देश्यविधेयभावमहिम्ना भासते । तेन पाकस्य तण्डुलार म्भकसंयोगनाशकत्वेऽपि, संयोगमोदनं पचतीति न प्रयोगः । तण्डुलारम्भकसंयोगनाशस्यौदनोत्पत्तौ तण्डुलनाशेनाऽन्यथासिद्धतया अप्रयोजकत्वात् । वस्तुतस्तु विकृतिकर्माऽसमभिव्याहृते, तण्डुलं पचवतीतिवत् संयोगं पचतीति प्रयोगवारणाय नाशद्वारा नाशकत्वमेव द्वितीयाSर्थो वाच्य इति प्रकृते प्रयोज्यप्रयोजकभावाऽभानेऽपि न क्षतिः । तथाच तण्डुलनाशक ओदनात्पादको यो व्यापारस्तदनुकूलकृतिमानिति बोधः । ईदृशस्थले च कर्माख्यातेन प्रकृतेः कर्मत्वमेवाभिधीयत अत एव काष्ठानि भस्मराशिः क्रियन्त इत्यादौ काष्ठपदसमानवचनत्वमाख्यतस्य, न तु भस्मादिविकारवाचक पदसमानवचनत्वम् । भावनाऽन्वयिनि संख्यान्वयनियमात् । प्रधानाप्रधानकर्मवाचक कर्मपदसमभिव्याहृत-नी-वहादि दुहादिप्रकृतिककर्माख्यातस्यैवाप्रधाने दुहादीनां प्रधाने नहिष्व. हामित्यनुशासनात् कर्मत्वद्वयाऽनभिधायकत्वाऽनियमेन प्रकृते क त्वद्वयस्यैव तुल्यतया विकृतिगत कर्मत्वस्यापि लकारेणाभिधाने बाधकाभावः । अख्यातस्य विकृतिसमानवचनत्वप्रसङ्गस्तु "गृह्णाति वाचकः संख्यां प्रकृतेर्विकृतेर्न हि" । इत्यनुशासन सिद्धविकृतिसंख्यान्वयबुद्धिं प्रति प्रकृतिसंख्यान्वयपरत्वेनाऽगृह्यमाणाख्यातजन्योपस्थिते हैतुत्वकल्पनया निरसनीयः। कथमन्यथा “भस्मीभवन्ति काष्ठानि ” इत्यादिप्रयोगा इति चेन्न । घटपट दृश्येते इत्यत्र द्वित्वस्यैवोभयसाधारणविशेष्यतावच्छे. दकाsपरिचयेन विकारविकारिणोर्द्वयोरेवाख्याताऽर्थविशेष्यत्वे वा वाक्यभेदापत्तेः । न चेष्टाऽऽपत्तिः । तथा सति काष्ठं नाश्यते भस्म
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy