________________
सुबर्थनिर्णयः। . प्रकृत्युच्छेदसम्भूतं किश्चित् काष्ठादिभस्मवत् । किञ्चिद् गुणान्तरोत्पत्या मुवर्णादिविकारवत् ।।
वस्तुतस्तु विक्लेदनं विक्लित्तिनिर्वर्तनमुत्पत्तिरेवोक्तपदयो । घल्युडन्तत्वात । तथाच फलद्वयाऽनुकूल एक एव व्यापारो धात्व. र्थतया भाष्यकृत्सम्मतः । व्यापारद्वयार्थकत्वोक्तिस्तु केषाञ्चित् तत्प. दयोर्णिजन्तप्रकृतिकल्युडन्तत्वभ्रमानबन्धनैवेत्यवधेयम् । यद्यपि विकार्य द्वेधा-प्रकृतिर्विकृतिश्चेत्येव वक्तुमुचितं, तथापि विकृति. द्वैविध्येऽवगते प्रकृतावपि विकार्यत्वं ज्ञातप्रायं भवतीत्याशयेन तदनुक्त्वैव विकृतिकर्म विभजते *प्रकृत्युच्छेदेति । एतेन क्रियानिर्वाह्याऽभावः प्रतियोगिताऽवच्छेदकधर्मवत्त्वं प्रकृतिकर्मत्वमिति ध्वनितम्। . ___ काशान् कटं करोति, कुसुमानि नजं करोति, सुवर्ण कुण्डलं करोति, मृदं घटं करोति, काष्ठं भस्म करोति, तण्डुलानोदनं पचती. त्यादौ क्रियानिर्वाह्यो यः पूर्वभावविशिष्टकाष्ठकाशादिप्रतियोगिका. भावो विशिष्टाऽसत्वरूपस्तत्प्रतियोगितावच्छेदकवैशिष्ट्यवत्वं का. शकाष्ठादेरिति तत्प्रकृती लक्षणसङ्गतिः । सर्वत्र विशिष्टाभावप्रतियोगिनि तादृशप्रतियोगितावच्छेदकवैशिष्ट्यत्वादतिप्रसङ्गवारणाय क्रियानिर्वाह्येति प्रकृतधात्वर्थव्यापारनिर्वाह्यार्थकम् । क्वचित काष्ठ. तण्डुलाविधर्मिनाशादेव विशिष्टाऽभावो भस्मौदनादिसम्पादकः । क्वचिद्धर्मिणः सत्त्वेऽपि कटरगादिसन्दर्भविशेषविरहरूपपूर्वभाववि. शिष्टाऽसत्वं कटसन्दर्भादिनिष्पादकं क्रियातो निर्वहति ॥
सम्भूतमिति ॥ प्रकृतिनाशप्रयोज्योत्पत्तिमादित्यर्थः । इदं च भ. स्मवदित्यन्वयि काष्ठादीति पृथक् पदम् । अन्यथा काष्ठसुवर्णादेस्तुरीयतापत्तेः ॥ *भस्मवदिति ॥ तत्तोल्येन वर्तमानमन्यदपि वि. कारजातमित्यर्थः । सादृश्यं च प्रकृतिनाशप्रयोज्योत्पत्तिमत्त्वेनैव । एवमग्रेऽपि । तथाच प्रकृतिविकृतिभावापन्नकाष्ठभस्मादिविकार्य. मित्यर्थः पर्यवस्यति । एवञ्च, काष्ठं भस्म करोतत्यित्र करोतेः प्र. तियोगित्वविशिष्टनाश उत्पत्तिश्च फलद्वयं, तदनुकूलव्यापारश्चा
२३