________________
१७६
दर्पणसहिते वैयाकरणभूषणसारे तन्नित्यं विकार्य तु द्वेधा कर्म व्यवस्थितम् ॥ ...
भाषिकनिवर्त्यत्वस्य विवक्षणान्न दोषः । तदुक्तं
सती वा विद्यमाना वा प्रकृतिः परिणामिनी ।
यस्य नाश्रीयते तस्य निर्वय॑त्वं प्रचक्षते ॥ इति । यस्य विकृतिकर्मणो, नाश्रीयते-न प्रयुज्यते, न विवक्ष्यत इति यावत् । अन्यत्-उक्तार्थ । *विकार्य स्विति* । तल्लक्षणं तु प्रतीय. मानप्रकृतिविकृतिभावकत्वे सति क्रियानिर्वाह्यविशिष्टासत्त्वोत्पत्यन्यतरफलवत्वम् । घटं करोतीत्यादिनिर्वये क्रियानिर्वाह्योत्पत्तिम. त्यपि प्रकृतिविकृतिभावाभानानातिप्रसङ्गः । प्रकृतिकर्मणस्तादृश. विशिष्टासत्वाद् विकृतिकर्मणश्च तादृशोत्पत्त्याश्रयत्वाल्लक्षणसङ्गतिः। ईदृशस्थले फलद्वयप्रयोजकव्यापाराऽर्थकत्वं धातोरावश्यकम् । उ. कञ्च भाष्ये, 'द्यर्थः पचिः' इति । अन्यथैकफलैकव्यापारार्थकत्वस्या. कर्मकेष्वपि सत्त्वाद् विशेषोपादानानर्थक्यप्रसङ्गात् ॥ ___ परे तु-"द्वयर्थः पचिः" इति भाष्याद्, विक्लेदनं निर्वर्तनं च पचे. रर्थः। तण्डुलानोदनं पचतीत्यस्य तण्डुलान् विक्लेदयन्त्रोदनं नि. निर्वतयतीति विवरणात् । तथाच प्रकृते तण्डुलाश्रयविक्लित्त्यनु. कूलव्यापाराश्रयाश्रयक ओदनाश्रयकोत्पत्त्यनुकूलो व्यापार इति बोधः । एवं काष्ठं भस्म करोतीत्यादावप्यूह्यमित्याहुः॥
तदसत् भावनाप्रकारकबोधे हतुत्वेन क्लप्तायाः कृद्धात्वन्य. तरजन्योपस्थितेर्विशेष्यतासम्बन्धेनाख्यातार्थेऽभावेन तादृशबोधा. सम्भवात् । एकयैव क्रियया फलद्वयोत्पत्तिसम्भवेन तद्वाक्यजन्यबो. धस्य व्यापारद्वयविषयकत्वकल्पनानौचित्यादाख्यातशब्दानिवृत्तभे. दाया एव क्रियाया अवममादिति रूपप्सूत्रीयकैयटाञ्च । किञ्च पचे.
ापारद्वयार्थकत्वे नव्यमते क्रियायां द्वित्वाबाधेन द्विवचनापत्ति. १र्वारा(१)।
(१) अत्रायंपाठः । विरोधात्पचेापारद्वयार्थकत्वे नव्यमते क्रियायां द्वित्वाबाधेन 'चैत्रौतण्डुलान् ओदनं पचति' इति प्रयोगापत्ते.
रत्वाच्च।