________________
सुवर्थनिर्णयः। एतच्च सत्पविधम्निर्वय॑श्च विकार्यश्च प्राप्यश्चेति त्रिधा मतम् । तच्चप्सिततमं कर्म चतुर्दाऽन्यत्तु(१) कल्पितम् ॥ औदासीन्येन यत प्राप्य(२) यच्च कर्तुरनीप्सितम्(३)।
संज्ञान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकम् ॥ इति वाक्यपदीयात् ।
यदसज्जायते सद्वा जन्मना यत्प्रकाशते ।
याः परस्परावृत्तित्वबाधेऽपि परस्परनिष्ठभेदप्रतियोगितावच्छेदकत्वस्याऽवाधान फलान्वयानुपपत्तिरित्यादि तत्रोक्तमिति । हरिकृतं कमविभागमाह(४) तश्चेति । क्रियाजन्यफलाऽऽश्रयरूपं कर्मेत्यर्थः॥
*यदसजायत इति । असत्कार्यवादमवलम्ब्य । सवेत्यादि तु . सांख्यमतेन । प्रकाशत इत्यनन्तरं
"प्रकृतेस्तु विवक्षायां विकार्य कैश्चिदन्यथा।
तन्निवत्यम्" इत्येव वाक्यपदीयपाठः । अन्यथा सामान्यधर्मेण अलक्षितस्य विकार्य्यस्य विशेष्यरूपेण प्रदर्शनार्थान्तरतापत्तेः। तदर्थस्तु, कैश्चित प्रसिद्धराचार्यैः प्रकृतिविवक्षायां निष्पाचं विका. यमित्युच्यते । अन्यथा तदविवक्षायां तनिष्पाद्यं निर्वय॑मिति तद. र्थः। तत्र घटं करोतीत्यादौ सत्या अपि मृदादिप्रकृतेः परिणामित्वे. नाविवक्षा । भस्म करोतीत्यादौ त्वसत्या एव तस्यास्तत्त्वेन सा।
यद्यपि निर्वय॑ते निष्पाद्यते इति व्युत्पत्त्या निर्वय॑त्व, तण्डुला. नोदनं पचतीत्यादावोदनादौ विकार्यकर्मण्यप्यस्ति तथापि प्रकृति. वाचकपदासमभिव्याहृतपदोपस्थाप्यत्वे सति निष्पाद्यत्वरूपपारि
(१)इप्सिततमभिन्नमित्यर्थः। (२)औदासीन्येनेति । ईप्सितत्वाभावे द्वेष्यत्वाभावे च सति यत् प्राप्यंक्रियाजन्यफलाश्रय इत्यर्थः।
(३) अनीप्सितम्-द्वेष्यमित्यर्थः । (8) प्रसङ्गसङ्गत्येति शेषः।