SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ दर्पणसहिते वैयाकरणभूषणसारे लान्यसमेव ताग्निसंयोगरूपधात्वर्थाश्रयत्वात् (१) । शाब्दबोधातिप्रसङ्गोऽप्युक्तस्यैव निरस्तः । परसमवेतत्वस्य शक्यत्वेऽपि परस्वस्य परसमवेतत्वस्य च इष्टाऽन्वय लाभायाऽनेकशः कार्य्यकारणभावाभ्युपगमे गौरवान्तरत्वादिति स्पष्टं भूषणे । १७४ म्यसमवेतेत्यनेन परसमवेतक्रियाजन्यत्वं विल्कित्तावस्तीति बोधितम् । धात्वर्थाश्रयत्वादित्यनेन कर्त्तृसंज्ञासत्त्वमावेद्यते । *उक्तरीत्यैवेत्यर्थः । धात्वर्थव्यापाराऽनधिकरणाश्रयोपस्थिति रूपहेत्वभावादिति भावः । ननु नाऽस्मन्मतेऽप्युक्तप्रयोगापत्तिस्तत्र व्यापारत्वेन फलस्यैव भानाऽङ्गीकारेण तण्डुलस्य धात्वर्थतावच्छेदकफलशालित्वाSभावात् । निष्कृष्टभवन्मतेऽपि व्यापारगत पौर्वापर्थ्यारोपेण फलस्य व्यापारतायाः स्वीकाराश्चेत्यतो दृषणाऽन्तरमाह I *परसमेवतत्वस्येति * | *इष्टाऽन्वयेति । इष्टस्य प्रकृत्यर्थस्य प्रतियोगितासम्बन्धेन परसमवेतत्वस्यैकदेशे परत्वे परसमेवतत्वस्य चाश्रयतया क्रियायामन्वयस्य लाभाय - भानायेत्यर्थः । *अनंकश इति* । प्रकृत्यर्थप्रकार कशाब्दबुद्धिं प्रति द्वितीयाऽधीनाधेयस्वोपस्थितेरिव तदधीनपरसमेवतत्वोपस्थितेः प्रकारतासम्बन्धेन, एवं परसमवेतत्वप्रकारकबुद्धि प्रति धातुजन्योपस्थितेर्व्यापारत्वाव च्छिन्नविशेष्यतासम्बन्धेन हेतुत्वकल्पने चातिगौरवादित्यर्थः । मन्मते तु फलप्रकार कशाब्दबोधक्लप्तहेतुताकव्यापारोपस्थितिविषtouriशे द्वितीया प्रकृत्यर्थावृत्तित्व वैशिष्टयनिवेशेनैव नातिप्रस ङ्ग इति भ ननु चैत्रो मैत्रश्च परस्परं गच्छत इत्यादी धात्वर्थव्यापारस्य द्विदीया प्रकृत्यर्थवृत्तित्वात्तत्तत्फलानन्वयप्रसङ्गोऽत आह *स्पष्टमिति । तथाच द्वितीयाप्रकृत्यर्थावृतीत्यनेन द्वितीया प्रकृत्यर्थवृत्तिभेदप्रतियोगिताऽवच्छेदकत्वस्याविवक्षणात्, परस्परं गच्छत इत्यादी क्रिया (१) विक्लित्यनुकूलः - तण्डुलान्यसमवेतः - अग्निसंयोगरूपः - धा त्वर्थः=पचधात्वर्थः । तज्जन्यफलाश्रयत्वादित्यर्थः । इदं दूषणमग्निसंयोगस्य धात्वर्थत्वं मत्वा दत्तमिति बोध्यम् ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy