SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ सुबर्थनिर्णयः। १७३ तन्न रोचयामहे परसमवेतत्वादेगौरवेणावाच्यत्वात् । अति. प्रसङ्गः किं द्वितीयायाः, शाब्दबोधस्य वा । नायः । तावद्वाच्या कथनेऽपि तत्तादवस्थ्यात् । गमयति कृष्णं गोकुलमितिवत् पाचयति कृष्णं गोपः(१)इति द्वितीयापत्तेः । तण्डुलं पचति चैत्र इतिवत् , तण्डुलं पच्यते स्वयमेवेत्यापत्तेश्च । विक्लित्यनुकूलतण्डु ऽऽश्रयत्वं कर्मत्वं निर्वाच्यम् । तत्र फलव्यापारयोर्धातुलभ्यत्वेऽपि वृत्तित्वे भेदप्रतियोगितावच्छेदकत्वपर्य्यवसिते वैयधिकरण्ये च द्वितीयादेः शक्तिरनन्यलभ्यत्वात् स्वीकरणीयेति । प्रकृतमनुसरामः॥ __*विलिकत्त्यनुकूलेति* । इदं तण्डुलाऽन्यसमवेतक्रियाऽन्वयि । यथाश्रुतं दूषयति *तन्न रोचयामहे इत्यादिना* । ननु परसमवेत. त्वस्य द्वितीयार्थत्वं विनाऽतिप्रसङ्गाऽनिरासाद् गौरवं न दोषायेत्यत आह *अतिप्रसङ्गः किमिति*। *तावदिति । परसमवेतक्रिया. जन्यधात्वर्थताऽवच्छेदकफलशालित्वरूपकर्मत्वस्य द्वितीयार्थत्व. स्वीकारेऽपि द्वितीयातिप्रसङ्गस्य तादवस्थ्यादित्यर्थः । तमे। वाह *गमयति कृष्णमित्यादिना*। *द्वितीयापत्तरिति । द्विती. योत्पत्तायुक्तकर्मत्वस्य तन्त्रत्वे, गमयति गोकुलं कृष्णमित्यत्र णि अर्थनिरूपितनिरुक्तकर्मत्वस्येव पचिप्रकृतिकणिजथमत्वस्य कृ. ठणे सत्त्वेन पाचयत्यादिप्रयोगेऽपि प्रयोज्यकर्तृवाचकाद् द्वितीया. पत्तेरतः संज्ञाया एव द्वितीयोत्पत्तौ प्रयोजकताङ्गीकरणीया। एवञ्च तत एवातिप्रसङ्गभङ्गे, कृतं तत्र द्वितीयाशक्त्येति भावः। ननु तादृशकर्मत्वमेव द्वितीयानियामकम् । निरुक्तस्थले कृष्णे तत्सत्त्वेऽप्युपात्तगत्यर्थकाद्यतिरिक्तणिजन्तधातुयोगे "गतिबुद्धि" इति सूत्रेण तदविवक्षाबोधनान्नोक्तापत्तिः । विवक्षाया एव विभक्त्यु त्पत्ती नियामकताया वक्ष्यमाणत्वादत आह *तण्डुलं पच्यत इति । तण्डुले भवदुक्तद्वितीयानियामककर्मत्वस्य सत्त्वात्तदापत्तिः, मन्मते तु कत्तृसंशया कर्मसंज्ञाया बाधान्न तदापत्तिरिति भावः । तण्डला. . (१) चैत्रश्चैत्रं गच्छतीत्यत्रोक्तापत्तेरुक्तरीत्या वारणेनान्यत्रातिप्र. सङ्गमापादयति-पाचयति कृष्णमिति ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy