________________
१७२ दर्पणसहिते वैयाकरणभूषणसारे शाब्दबोधस्तु तण्डुलसमवेतधात्वर्थतावच्छेदकविक्लित्त्यनुकूलतण्डुलान्यसमवेतक्रियाजनककृतिमाँश्चैत्र इत्याहुः ।
याप्रतियोगिकाऽभावबोध एवं न्याय्यो न तु क्रियायां फलाभावस्य विभक्त्यर्थाभावस्य वा प्रथमान्तार्थ वा तिर्थाऽभावस्य क्लप्तकार. णविरहादिति ॥ ___ अत्र वदन्ति । यद्धाऽवच्छिन्ने यद्धाऽवच्छिन्नत्वं येन संसर्गेण नसमभिव्याहारे प्रतीयते तद्धर्मावच्छिन्ने तद्धावच्छिन्नस्य तत्संसर्गावच्छिन्नप्रतियोगिताकाभावो नसमाभिव्याहा. रे बुचते इति सकललोकानुवभसिद्धोऽयमर्थः । प्रतियोग्यभावाsन्वयौ तुल्ययोगक्षेमाविति वदता दीधितिकृतोपनिबद्धः । एवञ्च चै. जो ग्रामं गच्छतीत्यत्र नासमभिव्याहारे क्रियायां द्वितीयाऽर्थवृ. त्तित्वविशिष्टसंयोगजनकत्वस्य बोधात् तत्समभिव्याहारे तत्र तद. भावस्य बोधो जायमानः केन वारणीयः । न च कारणाभावः । न. अर्थाभावप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाद्वबोधे प्रतियोग्यन्वययोग्याऽर्थोपस्थितेर्हेतुतया तस्याश्च क्रियायां सत्त्वात् । न तु नअर्थनिष्ठविशेष्यतानिरूपितप्रकारतासम्बन्धेन बोधे धातुजन्य. भावनापस्थितेर्हेतुता । चैत्रश्चैत्रं न गच्छतीत्यादिवाक्यानामप्रामा. ण्यापत्तेः। चैत्रकर्मकचैत्रकर्तृकगमनक्रियारूपप्रतियोगिनोऽप्रसिद्ध्या ना तदभावस्य बोधयितुमशक्यत्वात्।
मन्मते तु चैत्रकर्तकक्रियायां चैत्रवृत्तिसंयोगजनकत्वेऽपि चैत्रवृत्तिभेदप्रतियोगितावच्छेदकत्वस्य तस्यामसत्त्वेन ना तदभावस्य प्रत्यायनात् प्रामाण्योपपत्तेः । अत एव परसमवेतत्वस्य द्वितीयार्थत्वमप्यावश्यकम् । नच त्वन्मतेऽपि चैत्रस्याकर्मत्वात् कथं त. द्वाचकाद् द्वितीयापपत्तिरुक्तस्थले इति वाच्यम्, मैत्रो गच्छति चैं. त्रं, न चैत्र इत्यत्र मैत्रक्रियावच्छिन्नाप्रतियोगिताकभेदवत्त्वतदीयसं. योगाश्रयत्वयोरुभयोर्द्वितीयार्थयोरबाधेन तदुपपत्तेः । अधिकमग्रे व. क्ष्यते । __ तस्मात्री गच्छतीत्यादौ चैत्रो न कर्मेति व्यवहाराच, सर्व. था कर्तृव्यावृत्तधात्वर्थव्यापारप्रयोज्यतव्यधिकरणधास्वर्थफला