________________
सुबर्थनिर्णयः ।
बोध्यते । तथाच, चैत्रस्तण्डुलं पचतीत्यादौ तण्डुलान्यसमवेतव्यापारजन्यधात्वर्थतावच्छेदकावक्लित्तिशालित्वात् तण्डुलस्य कर्म्मता ।
१७१
धस्याऽनुभवसिद्धतया तत्तदूव्यक्तित्वाऽवच्छिन्नप्रतियोगितयाग्वयासम्भवात्, तद्व्यक्तित्वोपस्थापकपदाऽभावाश्च । एकधर्मावच्छिन्नप्रतियोगिताया अन्यधर्मावच्छिन्नसंसर्गत्वे मानाभावाश्च प्रतियोगिविशेषिताभावबुद्धेर्विशिष्ट वैशिष्टया ऽवगाद्दित्वनियमात् ।
तदुक्तं दीधितिकृता- प्रतियोगिविशेषिताभावमानं तु विशिष्टवै शिष्ट मर्यादां नातिशेत इतीति चेत् तर्हि क्रियान्वयिभेदप्रतियोगितावच्छेदकत्वं द्वितीयार्थः । भेदे प्रकृत्यर्थस्याधेयतयान्वयान्न पूर्वोकापश्यनुपपत्ती । नञ्समभिव्याहारे च नत्रा तात्पर्य्यवशाश्चैत्रश्चैत्रं न गच्छतीत्यादौ द्वितीयाप्रकृत्यर्थवृत्तित्वविशिष्टतदपरार्थभेदप्रतियोगितावच्छेदकत्वाभावः । कचिच्च चैत्रो ग्रामं न गच्छतीत्यादी द्वितीयाऽर्थवृत्तित्वविशिष्टधात्वर्थसंयोगजनकत्वाभावः क्रियायां
बोध्यते । ये तु प्रकृत्यर्थवृत्तित्वविशिष्टसंयोगादिरूपफलस्यैव जनकत्वस्वाश्रयनिष्ठभेदप्रतियोगीतावच्छेदकत्वोभयसम्बन्धेन क्रियायामन्वयोपगमाद् भेदप्रतियोगितावच्छेदकत्वस्य द्वितीयार्थत्वमन्तरेणाप्युक्तापत्तिमुद्धरन्ति तन्मते वृत्यनियामकसम्बन्धस्याभावप्रतियोगि वच्छेदकतयोक्तस्थले उक्तसम्बन्धेन नञा संयोगाभावबोधाऽनुपपत्तिः । परसमवेतत्वं द्वितीयार्थ इति दीधितिविरोधश्च ।
एवञ्च चैत्रो ग्रामं गच्छतीत्यत्र ग्रामवृत्तिसंयोगजनिका ग्रामवृत्तिभेदप्रतियोगितावच्छेदिका व या क्रिया तदनुकूलकृतिमाँचैत्र इति नैयायिक मतपरिष्कारः ।
अत्र प्रत्यवतिष्ठन्ते । नञर्थप्रसज्यप्रतिषेधस्य प्रतियोगितया क्रियाऽन्वयित्वमिति व्यवस्थापनात् कथं चैत्रो ग्रामं न गच्छतीत्यादौ नञः संयोगजनकत्वाभावबोधकत्वम् उक्तश्च
पर्युदासः स विज्ञेयो यत्रोत्तरपदेषु नञ् । प्रसज्ज्यप्रतिषेधस्तु क्रियया सह यत्र नम् ॥ इति ।
यत्र नञर्थाभावः क्रियया धात्वर्थव्यापारेण प्रतियोगितया सम्ब
ड्रो भवतीत्युत्तरार्द्धाऽर्थः । तस्मात् तिङन्ते न समभिव्याहारे क्रि