________________
१७०
दर्पणसहिते वैयाकरणभूषणसारे
वारणाय धात्वर्थतावच्छेदकत्वं फले विशेषणं द्वितीयावाच्यमि त्युपाददते । परसमवेतत्वं धात्वर्थक्रियायामन्वेति । तथैव कार्यकारणभावान्तरकल्पनात् । परत्वञ्च द्वितीयया स्वमकुसर्यापेक्षया
1
योगात् काशीं गच्छतीति प्रयोगापत्तिरूपेत्यर्थः । * धात्वर्थतावच्छेदकत्वमिति । फलावच्छिन्नव्यापारस्य धात्वर्थत्वमिति वादिनां मतेनेदम् । तथाच तन्मते धात्वर्थतावच्छेदकफलशालित्वं कर्मत्वं द्वितीयाऽर्थः पर्यवस्यति । * कार्य्यकारणभावेति । द्वितीयाऽर्थपरसमघेतत्वस्य स्वनिष्ठप्रकारतानिरूपित विशेष्यतासम्बन्धेन शाब्दबुद्धिं प्रति भवनात्वावच्छिन्नविशेष्यतासम्बन्धेन धातुजन्योपस्थितेर्हेतुत्वान्तरकल्पनादित्यर्थः ।
ननु भेदस्य केवलान्वयितया सर्वस्यैव परत्वेन चैत्रक्रिया अपि मैत्राऽन्यसमवेतत्वात् तद्वाच्यताङ्गीकारेऽप्युक्तदोषतादवस्थ्यमत आह * परत्वञ्श्चेति* । व्युत्पत्तिवैचित्र्यात्तु पदार्थैकदेशेऽपि प्रतियोगितया प्रकृत्यर्थाऽन्वयः, प्रकृते चैत्रसंयोगजनकक्रियायां चैत्रभिन्नसमवेतत्वबाधान्न चैत्रश्चैत्रं गच्छतीति प्रयोगः । यत्र चोभयकर्मभ्यां मल्लयोः संयोगस्तत्र मल्लाऽन्तरक्रियायाः स्वनिष्ठसंयोगजनिकायाः स्वभिन्नसमवेतत्वेऽपि तादृशक्रियायाः स्वस्मिन् बाधान्न मल्लः स्वं गच्छ तीति प्रयोगः । स्वनिष्ठ संयोगजनकस्वक्रियायां स्वभिन्नसमवेतत्वस्यायोग्यत्वेनाभानेऽप्यबाधित संयोगजनकत्वं विषयीकृत्य, अभिचरन् यजेतेत्यादाविव शाब्दबोधसम्भवात् तदर्थतात्पर्येण स्वं गच्छसीति प्रयोगो दुर्वार इति तु नाशङ्कनीयम् । परसमवेतत्वांशाऽविष. यकस्य द्वितीयाधीनफलजनकत्वबाधस्य कुत्राप्यऽनभ्युपगमेन ताहशबोधे तद्भानसामग्र्या अप्यपेक्षणात् तस्याश्च प्रकृतेऽसत्त्वात्
अथ स्वस्याऽपि द्वितीयाऽवच्छिन्नभिन्नत्वात् स्वं गच्छतीति. प्रयोगवारणाय द्वितीयाप्रकृत्यर्थस्य प्रकृत्यर्थतावच्छेदकावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनाऽन्वयो वाच्यः । तथाच, 'चैत्रो द्रव्यं गच्छति' 'मल्लो मल्लं गच्छति' इत्यादिवाक्यानामप्रामाण्यापत्तिः । चैत्रमल्लादिनिष्ठक्रियाया द्वितीया प्रकृत्यर्थतावच्छेदकद्रव्यत्वमलत्वावच्छिन्नभिनासमवेतत्वात् तद्द्व्यक्तित्वानुपस्थितावपि शाब्दबो