SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ सुवर्थनिर्णयः। शाब्दबोधश्चैत्रथैत्रमियत्र स्यादिति चेन्न । तथा व्युत्पन्नानामिष्टापत्तेः । उच्यता वा प्रकारतासम्बन्धेन धात्वर्थफलविशे. ष्यकबोधं प्रति धात्वर्थव्यापारानधिकरणाश्रयोपस्थितिहेतुरिति कार्यकारणभावान्तरम् । प्रकृते चैत्रस्य व्यापारानधिकरणस्वाभावान्न दोषः । प्रयागस्य कर्मत्वन्तु सम्भावितमपि न । समभिव्याहृतधात्वर्थफलशालित्वस्यैव क्रियाजन्येसनेन विवक्ष. णस्य उक्तप्रायत्वात् । नैयायिकास्त्वायदोषवारणाय परसमवेतत्वं, द्वितीयदोष. नुकूलव्यापाराश्रयत्वस्य तत्र सत्त्वादिति भावः॥ *शाबोध इति॥ चैत्रनिष्ठसंयोगानुकूलश्चेत्रकर्तृको वर्तमानो व्यापार इति शाब्दबोध इत्यर्थः । तद्विषयस्याऽबाधादिति भावः ॥ * तथा व्युत्पन्नानामि. ति* ॥ सामन्यतो धात्वर्थफलविशेष्यतानिरूपितप्रकारतासम्बन्धे. न शाब्दबोधे आश्रयोपस्थितेर्हेतुत्ववादिनामित्यर्थः । बोधस्य स्व. स्वव्युत्पत्यनुसारित्वादिति भावः । चैत्रकर्मकचैत्रकर्तृकव्यापारशाब्दबोधस्य . चैत्रोग्रामं गच्छती. त्यादावननुभवादाह *उच्यतां वति* ॥ *कार्यकारणभावान्तरमिति* । सामान्यतः कार्यकारणभावकल्पने उक्ताऽति. प्रसङ्गेनाश्रयं प्रकृतधात्वर्थव्यापारानाधिकरणत्वन विशेष्य तादृशा• श्रयोपस्थितेहेतुत्वस्य कल्पनान्न तादृशशाब्दबोधापत्तिरिति भावः।*समभिव्याहृतेति । प्रकृतेत्यर्थः। *उक्तप्रायत्वादितिधा . त्वर्थविक्लित्याश्रयात् कर्मतेत्यादिग्रन्थेनेत्यस्यादिः।गमेस्तत्र पार्थक्ये. नाऽनुपादानादुक्तं *प्रायति । वस्तुतस्तु, फलव्यापारयोरित्यत्र फलत्वस्य तद्धात्वर्थजन्यत्वे सति तद्धातुजन्योपस्थितिविषयत्वरू. पस्य निर्वचनाद् व्यापारव्यधिकरण फलाश्रयत्वरूपकर्मत्वोक्त्वैवान. ति प्रसने नोक्तविशेषणस्य पार्थक्येन निवेश इति ध्येयम् ॥ नैयायिकमतं दृषयितुमुपन्यस्यति *नैयायिकास्त्विति*। *आधदो. षेति । चैत्रश्चैत्रं गच्छतीति प्रयोगापत्तिरूपेत्यर्थः। *द्वितीयेति नमः २२
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy