________________
१६८
दर्पणसहिते वैयाकरणभूषणसारे .. तिरोभावाभ्युपगमे भावानां सैव नास्तिता । -- लब्धक्रमे तिरोभावे नश्यतीति प्रतीयते ॥ इति ।
ननु चैत्रो ग्रामं गच्छतीत्यत्र ग्रामस्येव चैत्रस्यापि क्रियाजन्यग्रामसंयोगरूपफलाश्रयत्वात् कर्मतापत्तौ, चैत्रश्चैत्रं गच्छ. तीत्यापत्तिः । प्रयागतः काशीं गच्छति चैत्रे प्रयागं गच्छतीत्यापत्तिश्च । क्रियाजन्यसंयोगस्य काश्यामिव विभागस्य प्रयागेऽपि सत्वादिति चेन्न।
ग्रामस्येव चैवस्यापि फलाश्रयत्वेऽपि तदीयकर्तृसंज्ञया कर्मसंज्ञाया बाधेन, चैत्रश्चैत्रमिति प्रयोगासम्भवात् । द्वितीयो. त्पत्तौ संज्ञाया एत्र नियामकत्वात् । अन्यथा, गमयति कुष्णं गोकुलमित्यत्रेव, पाचयति कृष्णेनेत्यत्रापि कृष्णपदाद द्विती. यापत्तेः।
ननु सर्वदेव सति तस्मिन् कथं नाऽस्ति नश्यतीति व्यवहारोऽत आह *तिरोभावाभ्युपगम इति*तिरोभावाभिव्यञ्जकसामग्या तिरोभावे ऽभिव्यजिते सति, नाऽस्ति नष्ट इतिव्यवहारः। लब्धक्रमायां तु तस्यां नश्यतीति सत्कार्यवादसिद्धान्तः। प्रकृते घटस्य तिरोधानेऽपि सु. क्ष्मरूपेण सत्वात्तत्रावरणभङ्गरूपफल'श्रयत्वं सुलभामिति भावः।उक्त. निकृष्टकर्मत्वं विशदीकर्तुमाशङ्कते *नन्विति* ॥ विभागस्येत्यस्य क्रियाजन्येत्यादि । ननु कर्मसंज्ञयाः परया कर्तृसंशया बाधनेऽपि वास्तवकर्मत्वस्य तत्राऽबाधात् स्यादेव तादृशप्रयोगोऽत आह द्वि. तीयोत्पत्ताविति* ॥ इदं च प्रकृताऽभिप्रायेण । कारकविभक्त्युत्प. त्तिमात्रस्यैव तन्नियम्यत्वात् । *अन्यथेति* ॥संज्ञाया अनियामकत्व. इत्यर्थः॥ ___*द्वितीयापत्तरिति ॥ गमयति कृष्णं गोकुलामित्यत्र णि.
प्रकृत्यऽर्थव्यापारजन्यसंयोगानुकूलव्यापाररूपधात्वर्थफलाश्रयत्व. स्येव, पाचयति कृष्णेनौदनमित्यत्रापि तादृशव्यापारजन्यावक्लित्या