________________
सुबर्थनिर्णयः ।
१६
रोक्षस्थलेऽपि ज्ञानजन्यस्य तस्यावश्यकत्वात् । अन्यथा यथापूर्व्वं न जानामीत्यापत्तेः । अतीतादेराश्रयना, विषयतया ज्ञा नाश्रयताया नैयायिकानामिव सत्कार्यवादसिद्धान्ताद्वोपपद्यते इति । उक्तश्च-
भावात् । नैयायिकमते त्वेतादृशस्थले यथा घटादीनां कर्मत्वं तथोपपादितं धात्वर्थनिरूपणावसरे ।
ननु विद्यमानघटे ज्ञानजन्यावरणभङ्गस्य सम्भवेऽपि भाविवि. नष्टघटे निराश्रयस्य तस्यासम्भवेन तस्य कर्मत्वानुपपत्तिरत आह *अतीतानागतेति* । तत्राश्रयताङ्गीकारे युक्तिमाह *अन्यथेति । तत्रावरणभङ्गास्त्रीकारे इत्यर्थः ॥ यथापूर्वमिति जानातिक्रियाविशेषणम् | पदार्थानतिवृत्ताकयर्याभावः । पूर्वमनतिक्रम्येत्यर्थः । पूर्वशानानतिक्रमो यस्मिंस्तदिति यावत घटस्य विद्यमानतादशायां ता त्कालिकज्ञानस्य तदूघटे आवरणभङ्गजनकतयाऽतीतदशायामाधुनिकशानस्य तदजनकत्वेन पूर्वातिक्रमस्य तत्त्वात् पूर्वानतिक्रान्तशानाभावस्य विषयस्याऽबाधात्तादृशप्रयोगस्य प्रामाण्यापत्तेरित्यर्थः । अतीतघटे आधुनिकज्ञानेनावरण भङ्गोत्पादाभ्युपगमे तु तेन पूर्वज्ञानानतिक्रमात् तदभावस्य बाधाद्भवति तस्याप्रामाण्यमिति भावः ।
ननु विनष्टे घटे वास्तवतदाश्रयतैव कथमत आह-*अतीतादेरिति । आदिना भाविपरिग्रहः । *नैयायिकानामिवेति। यथाऽनुभवानुरोधेन तस्मिन् विषयतया ज्ञानाश्रयताङ्गीकारस्तेषां तथास्माकमपीति भा घः । नन्वततिो घटो ज्ञानविषय इति प्रतीतेरस्तु नाम तादृशघटस्य विषयतया ज्ञानाश्रयता । आवरणभङ्गाश्रयतायां तु न तथा साधकोपलब्धिरत आह *सत्काय्यति । तमेव दर्शयति *उक्तञ्चेति । "सदेव सोम्येदमग्र आसीत्” इति श्रुतेः कार्य्यजातं सुक्ष्मरूपेण प्रागवस्थितमेव । परमते जनकत्वेनाभिमत सामग्री समवधानान्तु तदभिव्यक्तीभवति । कारणे सूक्ष्मरूपेणावस्थानमेव तत्प्रागभावः । तस्यामेवावस्थायां स भविष्यतीति व्यवह्नियते । ततः प्रच्युतमभिव्यक्तिलक्षणं धममप्राप्तं जायत इति । प्राप्ताभिव्यक्तिस्त्वस्तीति ।