________________
६६६ . दर्पणसहिते वैयाकरणभूषणसारे दनं पचतीत्यत्र विक्लियाश्रयत्वात् कर्मता । घटं करोतीत्यत्र उत्पत्याश्रयत्वाद् (१)उत्पत्तेर्धात्वर्थत्वात् । जानातीयत्र(२)आ. वरणभङ्गरूपधात्वर्थफलाऽऽश्रयत्वात् । अतीताऽनागतादिप
., विक्लित्याश्रयत्वात् कर्मतेति । कर्मसंक्षेत्यर्थः। एतेन कर्तृ. गतप्रकृतधात्वर्थव्यापारप्रयोज्यतव्यधिकरणप्रकृतधात्वर्थफलाश्रय. स्वं कर्मत्वमुक्तं भवति । यद् वक्ष्यति 'उतप्रायत्वात्' इति ॥ 'अग्नेर्माप्रवकं वारयति' इत्यादावग्न्यादावतिव्याप्तिनिरासाय व्यापारे कर्तृगतत्वमुपात्तम् । वारयतेश्च संयोगानुकूलव्यापाराभावानुकूलव्या. पारोऽर्थः। चैत्रो ग्रामं गच्छतीत्यादौ चैत्रादेरिणाय, व्यधिकरणे. ति। वैयधिकरण्यं च तदनधिकरणवृत्तित्वं, न तु तदधिकरणावृत्ति स्वम् । तस्य संयोगे असत्त्वेन प्रामादाकव्याप्तेः । ताशवैयधिकरण्यविशिष्टाऽधिकरणतावाश्चैत्रादावसत्त्वान्नातिप्रसङ्गसम्भावना. पि । 'माषेवश्वं बध्नाति' इत्यादौ बन्धनप्रयोज्यभक्षणाश्रयमाषाणां तत्त्ववारणाय प्रकृतधात्वर्थत्त्वं फलविशेषणम् । प्रकृतत्वं च, तत्र तत्र विशिष्योपादेयम्। 'पयसौदनं भुङ्क्ते' इत्यादौ तु कर्मत्वाविव. क्षणान्न द्वितीया। कृतभोजनस्य पयोलोभेन प्रवृत्तावीप्सिततमत्व. स्यापि पयसि सम्भवादिति। - ननु परैः कत्रो यत्नमात्राऽर्थकत्वाभ्युपगमात् कथमुत्पत्तेः प्रकृत. धात्वर्थत्वमत आह *उत्पत्तेरिति । तथाच, कृष उत्पत्तिरूपफलार्थकत्वस्य प्रागुपपादनानार्थासङ्गतिरिति भावः। धात्वर्थत्वादि. त्युक्तया कृतः केवलयत्नार्थकत्वे घटादीनां कर्मत्वानुपपत्तिरपि दोष. स्वेन ध्वन्यते * आवरणभङ्गेति । प्राचीनमतानुसारेणेदम् । निकृष्टमते तु ज्ञानरूपफलस्य विषयतया घटादी सत्त्वाकर्मतेति बोध्यम् । न चाकर्मकतापत्तिः । फलतावच्छेदकसम्बन्धेन सामानाधिकरण्या:
(१) 'उत्पत्त्याश्रयत्वात्' 'मावरणभङ्गरूपधात्वर्थफलाश्रयत्वात्' इत्युभयत्र कर्मता इत्यस्यानुषङणान्वयः
(२) 'आवरणस्य भक्त आचरणभङ्गः। आवरणं नाम अज्ञानअर्थात् आवरणमको नाम अक्षानमन इत्यर्थः ।