________________
सुवर्थनिर्णयः। तत्प्रवेशः । तथाच क्रियायाः फलस्य च धातुनैव लाभादनन्यलभ्य आश्रय एवार्थः । तत्पश्चाखण्डशक्तिरूपमवच्छेदकम् । ओ.
विहितेन "वारणार्थानाम्" (पा० सू० १ । ४ । २७ ) इत्यनेनापादानसंज्ञा प्रसज्येत । सूत्रं तु, हरि भजतीत्यादी चरितार्थम् । तत्परिहारायेप्सिततमत्वस्य संशाकोटी निवेशे अप्रोप्तद्वेषोदासीनसंज्ञाविधा. नार्थमुत्तरसूत्रमिति तथा नोक्तमिति । ननु तथापि पञ्चम्या इव-न द्वितीयाया अप्याश्रयमात्रार्थकता, किन्तु विशिष्टस्यैवेत्यत आह *तथाचेति । आश्रय एवेत्येवकारेण विशिष्टार्थस्य शक्यत्वव्य. वच्छंदः। नन्वाश्रयत्वस्य तत्ततस्वरूपात्मकस्य तत्तदाश्रयभिन्नत्वात् कथं तस्य शक्यतावच्छेदकत्वम् । अनुगतधर्मस्यैव तत्वादत आह *तत्त्वति* । आश्रयत्वं चेत्यर्थः *अखण्डशक्तिरूपमिति*। शक्तिधर्मः । इतरपदार्थाघटितमूर्तिकधर्मरूपमिति यावत । आश्रय इत्यनुगतव्यवहारादाश्रयपदे शक्यतावच्छेदकत्वाच तत्सिद्धिद्रव्य स्वादिवदिति भावः ॥
नैयायिकास्तु-आश्रयताया नियतान्यनिरूपितस्वरूपाया अनु. गमकत्वाऽसम्भवः । शक्यतावच्छेदकत्वस्यापि विभुत्वान्यतरत्वादी व्यभिचारेण नाऽखण्डत्वसाधकत्वमिति न द्वितीयाया आश्रयोऽर्थः । तस्य प्रकृत्यैव लाभात् प्रकृत्यर्थभिन्नत्वेन तत आश्रयस्याऽननुभवाश्च । किन्तु फलान्वयिनी कृतिरेव तदर्थः । कर्मणि द्वितीयेत्यस्य फलनिष्ठाऽऽधेयत्वान्वये प्रकृतितात्पर्य तदुत्तरं द्वितीयेत्यर्थात् नतद्विरोधोऽपि । अनादितात्पर्यग्राहकत्वेन परम्परया शक्तिग्राहकत्वाच न तवैय्यथ्यम् । आश्रयत्वं तु न तच्छक्यम् । तस्य निरूपकता. सम्बन्धेनैव फलाऽन्वयित्वस्याभ्युपगन्तव्यतया निरूपकत्वस्य च वृत्त्यनियामकतयाऽभावप्रतियोगिताऽनवच्छेदकत्वेन, विहगो भूमि गच्छति न महीरुहमित्यादी धात्वर्थफले संयोगे महीरुहनिष्ठाश्रयतायास्तेन सम्बन्धेनाभावस्थाऽप्रसिद्धतया ताबोधत्वाऽसम्भ. यात् । न च सूत्रस्वरसभङ्गः । शक्तिः कारकमितिपक्षे तदयोगात । आधेयताया अपि निरूपकतया कारकधर्मवादित्याहुः॥