SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ दर्पणसहिते वैयाकरणभूषणसारे .. "तथा युक्तश्चानीप्सितम्" (पा० मू०१ । ४ । ५०) इत्यादि(१)संग्रहाचैवमेव युक्तम् । ईप्सितानीप्सितत्वयोः शा. ब्दबोधे भानाभावेन संज्ञायामेव तदुपयोगो, न तु वाच्यकोटौ कर्मान्तरसाकाङ्गत्वमस्त्येव । गन्धनिरूपितलौकिकविषायतायां पु. पादेराधेयत्वीयसांसर्गिकविषयतानिरूपितप्रकारतानिरूपकत्वेनाऽ. न्वयेनाऽकर्मत्वात् । कृष्णाय राध्यतीत्यस्य कृष्णस्य शुभाऽशुभं पर्यालोचयतीत्यर्थान धात्वर्थान्तर्भूतशुभकर्मणः कर्मान्तरसाकाङ्गत्वमिति न तत्रातिप्र. सतः। बुभूषत्यादीनां तु भवनाऽऽदिकर्मणः कर्मान्तरानाकास्य धात्वर्थतावच्छेदककोटिप्रविष्टत्वादकर्मकत्वं व्यक्तमेव । एवं, स्वर्यत इति भाष्यप्रयोगस्थस्वरवदुरूपविकृतिकर्मणः सन्निहितशब्दरूपप्रकृ. तिकर्मसाकातया, करोत्यर्थणिजन्तात् कर्मप्रत्योपपत्तिरिति बोध्यम् ॥ केचित्तु-सनाद्यन्तस्य धात्वर्थोपसगृहीतत्वेनाऽकर्मकत्वेऽ पि तत्प्रकृतेः सकर्मकत्वमादाय तस्मात कर्मप्रत्ययोपपत्तिमाहुः । ननु तथापीष्टाऽघटितस्य भवदुक्तस्य कथं कर्मलक्षणत्वमत आह * तथा युक्तमिति* ॥ कर्मव्यवहारस्य द्वेषोदासीनयोरप्य. विशिष्टत्वात्तत्साधारणस्यैव लक्षणत्वमुचितम् । इच्छाघटितस्यैव तस्य लक्षणत्वे तु द्वेष्यादिकर्मण्यव्याप्तिः स्यात् तथाच तत्साधा. रण्यायेदमेवाश्रयितुं युक्तमिति भावः । *एवमेवेति । इत्थमेवे. त्यर्थः। ननु द्वितीयाया उतकर्मार्थकत्वे, हरि भजतीत्यादौ हा. देरीप्सितत्वादिना भानाऽनुपपत्तिरत आह ईप्सितानीप्सितत्व. योरिति । *भानाऽभावेनेति । सार्वजनीनतयानुभवादितिभावः। ननु तर्हि क्रियाजन्यफलाश्रयः कर्मत्येव सूज्यतामत आह-*संक्षा. यामेवेति। .. अयमाशयः । क्रियाजन्यफलाश्रयः कर्मति सूत्रप्रणयने यधपीदिसतानीप्सितयोरविशेषेण संक्षा सिद्धयति तथाप्यग्नेर्माणवकं वा. रयतीत्यादौ क्रियाजन्यफलभागित्वेनेष्टस्य माणवकस्याऽपि विशेष. (१) आदिपदम् “गतिबुद्धिप्रत्यषसानार्थ" इत्यादिपरिग्राहकम् ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy