SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ लकारार्थनिर्णयः। ११ त्यर्थः । "लिनिमित्ते लङ् क्रियातिपत्ती" (पा० सू०३।३ । १३९) इति सूत्रात् । लिङो निमित्तं हेतुहेतुमद्भावादि । यथा, 'मुष्टिश्चेदभविष्यत् मुभिक्षमभविष्यत्'(१) । 'वहिश्चेत् प्रावलिज्यद् ओदनमपक्ष्यत्' इसादौ । अत्र वयभिन्नाऽऽश्रयकप्रज्वलनाऽनुकूलव्यापाराभावप्रयोज्य-ओदनाभिन्नाश्रयकविक्लित्यनुकूलव्यापाराभाव इति शाब्दबोधः । एवं रीत्या द्रष्टव्यम् । अयश्च अर्थनिर्देश उपलक्षणम् । अर्थान्तरेऽपि बहुशो विधान. विष्यत्त्वे वा गम्यमान इत्यर्थः ॥ *हेतुहेतुमद्भावादीति* ॥ आदिना शक्त्यादिपरिग्रहः । तत्र भविष्यदर्थे उदाहरणमाह *सुवृष्टिश्चेदि. ति* ॥ अकस्यैव धात्वर्थस्य कर्तृरूपोपाधिभेदेन कार्यकारणभावा. ऽवगतिरुत्तरत्र तु स्वरूपतो भिन्नयोस्तयोरिति विशेषः ॥ *व्यापाराभाव इति* ॥ धात्वर्थयार्भविष्यस्वप्रदर्शनार्थ परमभावविशेष्य. कबोधोत्कीर्तनम् । वयभिन्नाश्रयकभाविप्रज्वलनजन्यौदनाऽऽश्रयः कविक्लित्यनुकूलव्यापार इति शाद्वबोधस्तूचितः॥ *प्रयोज्य इति॥ व्यापाराभावान्वयिप्रयोज्यत्वोत्कीर्तनं च वह्निप्रज्वलनौदनपाकयोः कार्यकारणभावप्रदर्शनाय । यदभावो यदभावप्रयोज्यः स तजन्य: इति नियमातातथाच प्रकृते ओदनपाकाभावे वह्निप्रज्वलनाभावप्रयो: ज्यत्वेऽवगते तत्प्रतियोगिनोस्तयोः कार्यकारणभावः सुबोधो भव. तीति भावः । एवं भूते । परस्परेण स्पृहणीयशोभं न चेदिदं द्वंद्वमयोजयिष्यत्। . अस्मिन् वये रूपविधानयत्नः पत्युः प्रजानां विकलोऽभविष्यत्॥ यदि देवदत्तो नाऽभविष्यदित्यादि बोध्यमित्याह *एवं रीत्ये. ति* ॥ *अयश्चेति * ॥ वर्तमाने लडित्यादिनोपात्त इत्यर्थः ॥ *अ. (१) 'सुवृष्टिभवनं सुभिक्षभवनस्य हेतुः । सुभिक्षभवनं हेतुमदिति। तत्समर्पकाभ्यामुभाभ्यामपिधातुव्यक्तिभ्यां लङ् । अत्र हेतुहेतु. मद्भावः स्वरूपसन्निमित्तो नतु तत्रापि शक्तिः, शाद्वबोधेऽभानात्। ए. वं क्रियानिष्पत्तिरपि मानान्तरगम्या नतु वाच्येति बोध्यम् । २१
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy